Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1072

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢द्वी꣣डा꣡वि꣢न्द्र꣣ य꣢त्स्थि꣣रे꣡ यत्पर्शा꣢꣯ने꣣ प꣡रा꣢भृतम् । व꣡सु꣢ स्पा꣢र्हं꣡ तदा भ꣢꣯र ॥१०७२॥

यत् । वी꣣डौ꣢ । इ꣣न्द्र । य꣢त् । स्थि꣣रे꣢ । यत् । प꣡र्शा꣢꣯ने । प꣡रा꣢꣯भृतम् । प꣡रा꣢꣯ । भृ꣣तम् । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७२॥

Mantra without Swara
यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् । वसु स्पार्हं तदा भर ॥

यत् । वीडौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराभृतम् । परा । भृतम् । वसु । स्पार्हम् । तत् । आ । भर ॥१०७२॥

Samveda - Mantra Number : 1072
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) वीर मदीय अन्तरात्मन् ! (यत्) यद् वसु धनम् (वीडौ) दृढे मनुष्ये, (यत्) यद् वसु धनम् (स्थिरे) अविचले मनुष्ये, (यत्) यद् वसु धनम् (पर्शाने) मेघवत् सेचके दानशीले मनुष्ये। [पर्शान इति मेघनाम। निघं० १।१०।] (पराभृतम्) दूरदेशादपि हृतम् आनीतं भवति, (तत् स्पार्हम्) स्पृहणीयम् (वसु) आध्यात्मिकं भौतिकं च धनम् (आ भर) त्वम् उपलभस्व ॥३॥
Essence
जगति दृढस्वभावा विघ्नशतैरप्यविचाल्यमानाः परोपकारिणो जनाः स्वपराक्रमेण यदैश्वर्यं प्राप्नुवन्ति तदहं कुतो न प्राप्तुं शक्नोमि। हे मदीय अन्तरात्मन् ! त्वमपि दृढोऽविचलो वर्षकश्च भूत्वा सर्वविधमपि धनं संचिनु ॥३॥
Subject
तृतीय ऋक् पूर्वार्चिके २०७ क्रमाङ्के परमात्मानं राजानमाचार्यं च सम्बोधिता। अत्र स्वान्तरात्मानं सम्बोधयति।
Footnote
१. ऋ० ८।४५।४१, अथ० २०।४३।२, साम० २०७।