Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1071

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣡स्य꣢ ते꣣ वि꣡श्व꣢मानु꣣ष꣡ग्भूरे꣢꣯र्द꣣त्त꣢स्य꣣ वे꣡द꣢ति । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१०७१॥

य꣡स्य꣢꣯ । ते꣣ । वि꣡श्व꣢꣯म् । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । भू꣡रेः꣢꣯ । द꣣त्त꣡स्य꣢ । वे꣡द꣢꣯ति । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७१॥

Mantra without Swara
यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भर ॥

यस्य । ते । विश्वम् । अनुषक् । अनु । सक् । भूरेः । दत्तस्य । वेदति । वसु । स्पार्हम् । तत् । आ । भर ॥१०७१॥

Samveda - Mantra Number : 1071
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ऐश्वर्यशालिन् परमात्मन् ! (यस्य ते) यस्य तव (भूरेः) प्रचुरस्य (दत्तस्य) वितीर्णस्य धनस्य (विश्वम्) सकलं जगत् (आनुषक्) नैरन्तर्येण (वेदति) वेत्ति, [विद ज्ञाने, लेटि अडागमः।], (तत् स्पार्हम्) स्पृहणीयम् (वसु) आध्यात्मिकं भौतिकं च धनम् (आ भर) अस्मभ्यमपि प्रयच्छ ॥२॥
Essence
ब्रह्माण्डे यत्किञ्चिदपि धनं विकीर्णमस्ति तत् सर्वं परमात्मप्रदत्तमेव। वयमपि स्वपुरुषार्थेन तस्य धनस्य भागिनो भवेम ॥२॥
Subject
अथ परमात्मा प्रार्थ्यते।
Footnote
१. ऋ० ८।४५।४२, अथ० २०।४३।३, उभयत्र ‘वि॒श्वमा॑नुषो॒’ इति पाठः।