Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1070

1875 Mantra
Devata- इन्द्रः Rishi- त्रिशोकः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
भि꣣न्धि꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣢षः꣣ प꣢रि꣣ बा꣡धो꣢ ज꣣ही꣡ मृधः꣢꣯ । व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥१०७०॥

भि꣣न्धि꣢ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । ज꣣हि꣢ । मृ꣡धः꣢꣯ । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । तत् । आ । भ꣣र ॥१०७०॥

Mantra without Swara
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥

भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः । वसु । स्पार्हम् । तत् । आ । भर ॥१०७०॥

Samveda - Mantra Number : 1070
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र वीर मदीय अन्तरात्मन् ! त्वम् (विश्वाः द्विषः) समस्ताः द्वेष्ट्रीः रिपुसेनाः (अपभिन्धि) अप विदारय, (बाधः) बाधकान् (मृधः) हिंसकान् (परि जहि) परितो विनाशय। यत् (स्पार्हम्) स्पृहणीयम् (वसु) दिव्यं भौतिकं च धनमस्ति (तद्) धनम् (आ भर) आहर, उपार्जय ॥१॥ अत्रैकेन कारकेणानेकक्रियायोगाद् दीपकालङ्कारः ॥१॥
Essence
मनुष्यस्यान्तरात्मा चेत् प्रबुद्धस्तर्हि स सर्वं किञ्चित् साद्धुं शक्नोति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १३४ क्रमाङ्के परमात्मानं राजानमाचार्यं च संबोधिता। अत्र स्वान्तरात्मा समुद्बोध्यते ॥
Footnote
१. ऋ० ८।४५।४०, अथ० २०।४३।१, साम० १३४।