Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 107

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣡ मꣳहि꣢꣯ष्ठाय गायत ऋ꣣ता꣡व्ने꣢ बृह꣣ते꣢ शु꣣क्र꣡शो꣢चिषे । उ꣣पस्तुता꣡सो꣢ अ꣣ग्न꣡ये꣢ ॥१०७॥

प्र꣢ । मँ꣡हि꣢꣯ष्ठाय । गा꣣यत । ऋता꣡व्ने꣢ । बृ꣣हते꣢ । शु꣣क्र꣡शो꣢चिषे । शु꣣क्र꣢ । शो꣣चिषे । उपस्तुता꣡सः꣢ । उ꣣प । स्तुता꣡सः꣢अ꣣ग्न꣡ये꣢ ॥१०७॥

Mantra without Swara
प्र मꣳहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥

प्र । मँहिष्ठाय । गायत । ऋताव्ने । बृहते । शुक्रशोचिषे । शुक्र । शोचिषे । उपस्तुतासः । उप । स्तुतासःअग्नये ॥१०७॥

Samveda - Mantra Number : 107
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 12;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (उपस्तुतासः) प्रशंसां प्राप्ताः जनाः ! अत्र उपस्तुत प्रातिपदिकात् सम्बुद्धौ जसि आज्जसेरसुक्।’ अ० ७।१।५० इति जसोऽसुगागमः। यूयम् (मंहिष्ठाय) दातृतमाय। अतिशयेन मंहिता मंहिष्ठः। मंहते दानकर्मा। निघं० ३।२०। ततस्तृचि तुश्छन्दसि।’ अ० ५।३।५९ इति इष्ठनि, तुरिष्ठे-मेयस्सु।’ अ० ६।४।५४ इति तृचो लोपः। (ऋताव्ने) सत्यनियमवते। ऋतशब्दाद् मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१०९ वा० इति वनिप्। अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घान्तादेशः। (बृहते) महते, (शुक्रशोचिषे) शुक्रं दीप्तं पवित्रं वा शोचिस्तेजो यस्य तस्मै। शोचतिः ज्वलतिकर्मा। निघं० १।१६। शुचिर् पूतीभावे। तत औणादिको रन् प्रत्ययः। उ० २।२९। (अग्नये) परमेश्वराय (प्र गायत) प्रकृष्टतया स्तुतिगानम् अर्पयत ॥१॥
Essence
प्रशंसितैर्जनैः परमेश्वरमुपास्य तद्वद् दानसत्यतेजस्वितापवित्रतादिगुणान् संधार्य यशस्विभिर्भाव्यम् ॥१॥
Subject
अथ मनुष्याः परमेश्वरस्य गुणान् गातुं प्रेर्यन्ते।
Footnote
१. ऋ० ८।१०३।८, ऋषिः सोभरिः काण्वः। साम० ८७८।