Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1069

1875 Mantra
Devata- आदित्याः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ते꣡ स्या꣢म देव वरुण꣣ ते꣡ मि꣢त्र सू꣣रि꣡भिः꣢ स꣣ह꣢ । इ꣢ष꣣꣬ꣳ स्व꣢꣯श्च धीमहि ॥१०६९॥

ते꣢ । स्या꣣म । देव । वरुण । ते꣢ । मि꣣त्र । मि । त्र । सूरि꣡भिः꣢ । स꣣ह꣢ । इ꣡ष꣢꣯म् । स्वऽ३रि꣡ति꣢ । च꣣ । धीमहि ॥१०६९॥

Mantra without Swara
ते स्याम देव वरुण ते मित्र सूरिभिः सह । इषꣳ स्वश्च धीमहि ॥

ते । स्याम । देव । वरुण । ते । मित्र । मि । त्र । सूरिभिः । सह । इषम् । स्वऽ३रिति । च । धीमहि ॥१०६९॥

Samveda - Mantra Number : 1069
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) प्रकाशक, ज्ञानवन् (वरुण) वरणीय जीवात्मन् ! वयम् (ते) तव (स्याम) भवेम, हे (मित्र) सखे परमात्मन् ! (सूरिभिः सह) विद्वद्भिः साकम्, वयम् (ते) तव (स्याम) भवेम। (इषम्) अभीष्टम् ऐश्वर्यम् (स्वः च) आनन्दं च (धीमहि) दधीमहि। [डुधाञ् धातोर्लिङि ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् शबभावः ईत्वं च] ॥३॥
Essence
परमात्मजीवात्मनोः सख्यं प्राप्य सर्वे मनुष्या ज्ञानवन्तः प्रकाशवन्तः सानन्दा ऐश्वर्यवन्तः प्राप्तमोक्षाश्च भवेयुः ॥३॥
Subject
अथ वरुणं मित्रं च प्रार्थयते।
Footnote
१. ऋ० ७।६६।९।