Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1068

1875 Mantra
Devata- आदित्याः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
रा꣣या꣡ हि꣢रण्य꣣या꣢ म꣣ति꣢रि꣣य꣡म꣢वृ꣣का꣢य꣣ श꣡व꣢से । इ꣣यं꣡ विप्रा꣢꣯ मे꣣ध꣡सा꣢तये ॥१०६८॥

रा꣡या꣢ । हि꣣रण्यया꣢ । म꣣तिः꣢ । इ꣣य꣢म् । अ꣣वृका꣡य꣢ । अ꣣ । वृका꣡य꣢ । श꣡व꣢꣯से । इ꣣य꣢म् । वि꣡प्रा꣢꣯ । वि । प्रा꣣ । मेध꣡सा꣢तये । मे꣣ध꣢ । सा꣣तये ॥१०६८॥

Mantra without Swara
राया हिरण्यया मतिरियमवृकाय शवसे । इयं विप्रा मेधसातये ॥

राया । हिरण्यया । मतिः । इयम् । अवृकाय । अ । वृकाय । शवसे । इयम् । विप्रा । वि । प्रा । मेधसातये । मेध । सातये ॥१०६८॥

Samveda - Mantra Number : 1068
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सर्वमित्र जगदीश्वर ! (इयं मतिः) एषाऽस्माकं बुद्धिः स्तुतिर्वा (हिरण्यया राया) हिरण्यरूपेण धनेन सह। [हिरण्येन इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन तृतीयैकवचनस्य याजादेशः।] (अवृकाय) अखण्डिताय (शवसे) आत्मबलाय अस्तु। अपि च (विप्रा२ इयम्) विशेषेण प्राति पूरयतीति तादृशी इयं मतिः बुद्धिः स्तुतिर्वा। [प्रा पूरणे अदादिः।] (मेधसातये३) भवत्संगमप्राप्तये भवतु [मेधृ हिंसायां संगमे च।] ॥२॥
Essence
स्वबुद्धिबलेन परमेशस्तुत्या च वयं रजतसुवर्णमणिमुक्तादिधनमपराजितं बलं परमात्मसंगमं च प्राप्नुयाम ॥२॥
Subject
अथ मित्रं जगदीश्वरं प्रार्थयते।
Footnote
१. ऋ० ७।६६।८। २. सायणेन तु ‘हे विप्राः प्राज्ञाः’ इति सम्बुद्ध्यन्तं व्याख्यातम्, तत्तु चिन्त्यं पदपाठविरोधात् स्वरविरोधाच्च। ३. विप्राः ऋत्विजः, मेधसातये मेधालाभार्थम्—इति वि०।