Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1067

1875 Mantra
Devata- आदित्याः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣡ति꣢ वा꣣ꣳसू꣢र꣣ उ꣡दि꣢ते मि꣣त्रं꣡ गृ꣢णीषे꣣ व꣡रु꣢णम् । अ꣣र्यम꣡ण꣢ꣳ रि꣣शा꣡द꣢सम् ॥१०६७॥

प्र꣡ति꣢꣯ । वा꣣म् । सू꣡रे꣢꣯ । उ꣡दि꣢꣯ते । उत् । इ꣣ते । मित्र꣢म् । मि꣣ । त्र꣢म् । गृ꣣णीषे । व꣡रु꣢꣯णम् । अ꣣र्यम꣡ण꣢म् । रि꣣शा꣡द꣢सम् ॥१०६७॥

Mantra without Swara
प्रति वाꣳसूर उदिते मित्रं गृणीषे वरुणम् । अर्यमणꣳ रिशादसम् ॥

प्रति । वाम् । सूरे । उदिते । उत् । इते । मित्रम् । मि । त्रम् । गृणीषे । वरुणम् । अर्यमणम् । रिशादसम् ॥१०६७॥

Samveda - Mantra Number : 1067
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सूरे उदिते) सूर्ये उदयं प्राप्ते सति, अहम् (वाम्) युवाम् (मित्रम्) सखायं जगदीश्वरम् (वरुणम्) वरणीयं जीवात्मानं च, अपि च (रिशादसम्) दोषनाशकम्, [रिशान् हिंसकान् दोषान् दस्यति उपक्षयति यः स रिशादाः तम्।] (अर्यमणम्) अरिनिग्रहीतारं प्राणं च (प्रतिगृणीषे) प्रत्येकशः गुणवर्णनेन स्तौमि। [गृणातेः स्तुतिकर्मणो लेटि उत्तमैकवचने रूपम्] ॥१॥
Essence
प्रभातकाले मनुष्यैः स्वात्मोद्बोधनपुरस्सरं प्राणायामपूर्वकं च प्रत्यहं परमेश्वर उपासनीयः ॥१॥
Subject
अथ मित्रवरुणार्यम्णः स्तौति।
Footnote
१. ऋ० ७।६६।७।