Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1065

1875 Mantra
Devata- अग्निः Rishi- कुत्स आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
भ꣡रा꣢मे꣣ध्मं꣢ कृ꣣ण꣡वा꣢मा ह꣣वी꣡ꣳषि꣢ ते चि꣣त꣡य꣢न्तः꣣ प꣡र्व꣢णापर्वणा व꣣य꣢म् । जी꣣वा꣡त꣢वे प्रत꣣रा꣡ꣳ सा꣢ध꣣या धि꣡योऽग्ने꣢꣯ स꣣ख्ये꣡ म रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६५॥

भ꣡रा꣢꣯म । इ꣣ध्म꣢म् । कृ꣣ण꣡वा꣢म । ह꣣वी꣡ꣳषि꣢ । ते꣣ । चित꣡य꣢न्तः । प꣡र्व꣢꣯णापर्वणा । प꣡र्व꣢꣯णा । प꣣र्वणा । वय꣣म् । जी꣣वा꣡त꣢वे । प्र꣣तरा꣢म् । सा꣣धय । धि꣡यः꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६५॥

Mantra without Swara
भरामेध्मं कृणवामा हवीꣳषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतराꣳ साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥

भराम । इध्मम् । कृणवाम । हवीꣳषि । ते । चितयन्तः । पर्वणापर्वणा । पर्वणा । पर्वणा । वयम् । जीवातवे । प्रतराम् । साधय । धियः । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६५॥

Samveda - Mantra Number : 1065
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे आचार्यप्रवर ! (वयम्) त्वच्छिष्या वयम् (इध्मम्) समिधम् (भराम) हराम, आहरेम। [हृञ् हरणे धातोर्लेट्।] समित्पाणयो भूत्वा त्वदन्तिकमागच्छेम इत्यर्थः। (ते) तुभ्यम् (हवींषि) समर्पणानि (कृणवाम) कुर्याम। ततश्च (पर्वणा पर्वणा) खण्डशः खण्डशः (चितयन्तः) पूर्णज्ञानवन्तः भवेम। त्वम् (जीवातवे) जीवनाय (प्रतराम्) अत्यन्तम् (धियः) अस्माकं बुद्धीः (साधय) परिष्कुरु। हे (अग्ने) ज्ञानवन् आचार्य ! (वयम्) शिष्याः (तव सख्ये) त्वदीये साहचर्ये (मा रिषाम) निन्दादिजनितां हिंसां न प्राप्नुयाम ॥२॥२
Essence
आचार्यं प्रति ये सर्वथा समर्पिता जायन्ते त एव विद्वांसः सदाचारिणश्च भवन्ति। एकैकेन बिन्दुना यथा घटः प्रपूर्यते तथैव कणशः कणशो विद्यां गृहीत्वा पण्डिता जायन्ते ॥२॥
Subject
अथ पुनरप्याचार्यशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० १।९४।४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजाविषये व्याख्यातवान्।