Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1064

1875 Mantra
Devata- अग्निः Rishi- कुत्स आङ्गिरसः Chhand- जगती Swara- निषादः
Mantra with Swara
इ꣣म꣢꣫ꣳ स्तोम꣣म꣡र्ह꣢ते जा꣣त꣡वे꣢दसे꣣ र꣡थ꣢मिव꣣ सं꣡ म꣢हेमा मनी꣣ष꣡या꣢ । भ꣣द्रा꣢꣫ हि नः꣣ प्र꣡म꣢तिरस्य स꣣ꣳस꣡द्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६४॥

इ꣣म꣢म् । स्तो꣡म꣢꣯म् । अ꣡र्ह꣢꣯ते । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । र꣡थ꣢꣯म् । इ꣣व । स꣢म् । म꣣हेम । मनी꣡षया꣢ । भ꣣द्रा꣢ । हि । नः꣣ । प्र꣡म꣢꣯तिः । प्र । म꣣तिः । अस्य । सꣳस꣡दि꣢ । स꣣म् । स꣡दि꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । व꣢यम् । त꣡व꣢꣯ ॥१०६४॥

Mantra without Swara
इमꣳ स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । भद्रा हि नः प्रमतिरस्य सꣳसद्यग्ने सख्ये मा रिषामा वयं तव ॥

इमम् । स्तोमम् । अर्हते । जातवेदसे । जात । वेदसे । रथम् । इव । सम् । महेम । मनीषया । भद्रा । हि । नः । प्रमतिः । प्र । मतिः । अस्य । सꣳसदि । सम् । सदि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६४॥

Samveda - Mantra Number : 1064
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् (अर्हते) सुयोग्याय (जातवेदसे) विदुषे आचार्याय (मनीषया) मनोयोगेन सह (इमं स्तोमम्) एतत् श्रद्धास्तोत्रम् (सं महेम) सम्यक् प्रापयेम, (रथम् इव) यथा रथम् अन्यत्र प्रापयन्ति तद्वत्। यथा कञ्चित् पूज्यं जनं स्वगृहमानेतुं तस्मै शोभनो रथः प्रेष्यते, तथैवाचार्यमनुकूलयितुं तं प्रति श्रद्धावचांसि प्रेरयेमेति भावः। (अस्य) विदुषः आचार्यस्य (संसदि) संगतौ (नः) अस्मान् (भद्रा हि) कल्याणकरी खलु (प्रमतिः) प्रकृष्टा विद्या प्राप्नोति। हे (अग्ने) विद्याविनयादिप्रकाशक आचार्य ! (तव सख्ये) त्वदीये साहचर्ये (वयम्) शिष्याः (मा रिषाम) अज्ञानकदाचारादिकृतां क्षतिं न प्राप्नुयाम ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
विद्वांसं सदाचारिणं शिक्षणकलाकुशलमाचार्यं वृत्वा तत्संगतौ गुरुकुले निवसन्तो विनीताश्छात्राः सुयोग्या निर्दोषाश्च जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ६६ क्रमाङ्के परमेश्वरस्तुतिविषये व्याख्याता। अत्राचार्यशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० १।९४।१, अथ० २०।१३।३, साम० ६६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे भौतिकाग्निपक्षे च व्याचष्टे।