Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1062

1875 Mantra
Devata- पवमानः सोमः Rishi- जमदग्निर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भि꣡ गव्या꣢꣯नि वी꣣त꣡ये꣢ नृ꣣म्णा꣡ पु꣢ना꣣नो꣡ अ꣢र्षसि । स꣣न꣡द्वा꣢जः꣣ प꣡रि꣢ स्रव ॥१०६२॥

अ꣣भि꣢ । ग꣡व्या꣢꣯नि । वी꣣त꣡ये꣢ । नृ꣣म्णा꣢ । पु꣣नानः꣢ । अ꣣र्षसि । सन꣡द्वा꣢जः । स꣣न꣢त् । वा꣣जः । प꣡रि꣢꣯ । स्र꣣व ॥१०६२॥

Mantra without Swara
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि । सनद्वाजः परि स्रव ॥

अभि । गव्यानि । वीतये । नृम्णा । पुनानः । अर्षसि । सनद्वाजः । सनत् । वाजः । परि । स्रव ॥१०६२॥

Samveda - Mantra Number : 1062
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम विद्यारसागार आचार्य ! (वीतये) शिष्याणामस्माकं प्रगतये (गव्यानि) इन्द्रियसंबन्धीनि (नृम्णा) नृम्णानि बलानि (पुनानः) पवित्रीकुर्वन् त्वम् (अभि अर्षसि) अस्मान् प्रति आगच्छसि। स त्वम् (सनद्वाजः) अन्नधनादिकं प्रयच्छन् (परिस्रव) प्रवहस्व, विद्यामध्यापयेत्यर्थः ॥२॥
Essence
कुलपतय आचार्याश्छात्राणां चरित्राणि पुनन्तस्तेभ्योऽन्नवस्त्रबलादिकं सर्वं प्रयच्छन्तोऽगाधां विद्यां तानध्यापयेयुः ॥२॥
Subject
अथ छात्रा आचार्यं ब्रुवन्ति।
Footnote
१. ऋ० ९।६२।२३।