Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1060

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ ययो꣢꣯स्त्रि꣣ꣳश꣢तं꣣ त꣡ना꣢ स꣣ह꣡स्रा꣢णि च꣣ द꣡द्म꣢हे । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०६०॥

आ꣢ । य꣡योः꣢꣯ । त्रि꣣ꣳश꣡त꣢म् । त꣡ना꣢꣯ । स꣣ह꣡स्रा꣢णि । च꣣ । द꣡द्म꣢꣯हे । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०६०॥

Mantra without Swara
आ ययोस्त्रिꣳशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति ॥

आ । ययोः । त्रिꣳशतम् । तना । सहस्राणि । च । दद्महे । तरत् । सः । मन्दी । धावति ॥१०६०॥

Samveda - Mantra Number : 1060
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ययोः) ध्वस्रयोः दोषध्वंसकयोः पुरुषन्त्योः बहुदानयोः आत्ममनसोः (त्रिंशतम्) त्रिंशत्संख्याकानि (सहस्राणि) बहुसहस्राणि (च तना) विस्तृतानि ऐश्वर्याणि। [तना इति धननामसु पठितम्। निघं० २।१०।] वयम् (आदद्महे) गृह्णीमहे, तैः ऐश्वर्यैः (सः मन्दी) असौ स्तोता (धावति) स्वात्मानं प्रक्षालयति, (तरत्) तरति च शोकम्, मुक्तो भवतीत्यर्थः ॥ आत्ममनसोः त्रिंशद् ऐश्वर्याणि तावदेवम्—८ योगाङ्गानि, २ अभ्यासवैराग्ये, १. प्रणवजपः, १ वशीकारः, १ अध्यात्मप्रसादः, ३ तपः- स्वाध्यायेश्वरप्रणिधानानि, ४ वृत्तयः मैत्रीकरुणामुदितोपेक्षाः, ८ अणिमाद्याः सिद्धयः, १ विवेकख्यातिः, १ कैवल्यम्। अनेकसहस्राण्यैश्वर्याणि तु एतेषामेव महिमानः। आत्ममनसोः शोधनेन यथोचितोपयोगेन चागणि—तान्यैश्वर्याणि लब्धुं शक्नोत्युपासक इति तात्पर्यम् ॥४॥
Essence
केवलं भौतिकं धनमेव धनं नास्ति, प्रत्युत तदपेक्षया सुमहत्तरं धनमाध्यात्मिकं धनं विद्यते, यस्य प्राप्त्यै मनुष्यैर्यत्नो विधेयः ॥४॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।५८।४।