Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 106

1875 Mantra
Devata- अग्निः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
श्रु꣣꣬ष्ट्य꣢꣯ग्ने꣣ नव꣢स्य मे स्तो꣡म꣢स्य वीर विश्पते । नि꣢ मा꣣यि꣢न꣣स्त꣡प꣢सा र꣣क्ष꣡सो꣢ दह ॥१०६॥

श्रु꣣ष्टी꣢ । अ꣣ग्ने । न꣡व꣢꣯स्य । मे꣣ । स्तो꣡म꣢꣯स्य । वी꣣र । विश्पते । नि꣢ । मा꣣यि꣡नः꣢ । त꣡प꣢꣯सा । र꣣क्ष꣡सः । द꣣ह ॥१०६॥

Mantra without Swara
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । नि मायिनस्तपसा रक्षसो दह ॥

श्रुष्टी । अग्ने । नवस्य । मे । स्तोमस्य । वीर । विश्पते । नि । मायिनः । तपसा । रक्षसः । दह ॥१०६॥

Samveda - Mantra Number : 106
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(श्रुष्टी२) क्षिप्रमेव। श्रुष्टी इति क्षिप्रनाम, आशु अष्टीति। निरु० ६।१३। हे (वीर) पराक्रमशालिन्, (विश्पते) प्रजापालक (अग्ने) तेजोमय परमात्मन् राजन् वा ! त्वम् (मे) मम (नवस्य) स्तुत्यस्य, प्रशंसार्हस्य। णु स्तुतौ धातोः अप् प्रत्ययः। (स्तोमस्य) आभ्यन्तरस्य सद्गुणसैन्यस्य, बाह्यस्य च योद्धृसैन्यस्य (तपसा) तेजसा (मायिनः) मायाविनः छलकपटादिपूर्णान् (रक्षसः) राक्षसभावान् राक्षसजनान् वा (नि दह) निःशेषेण भस्मीकुरु ॥१०॥ अत्र अर्थश्लेषालङ्कारः ॥१०॥
Essence
ये केचित् पापरूपाः पापिरूपा वा मायाविनो राक्षसा अस्मानुद्वेजयन्ति तान् वयं शुभाभिः स्वमनोवृत्तिभिर्बलवद्भिर्योद्धृसंघैश्च, परमात्मनो नृपस्य च साहाय्येन पराजित्याभ्यन्तरं बाह्यं च सुराज्यमुपभुञ्जीमहि ॥१०॥ अत्र अग्नि-पवमान-अदितिनामभिः परमात्मनः स्मरणात् ततो धनकीर्त्यादियाचनाद्, रिपुविनाशराक्षसदाहादिप्रार्थनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति वेद्यम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे प्रथमा दशतिः ॥ इति प्रथमेऽध्याय एकादशः खण्डः ॥
Subject
अथ रक्षसां विनाशः प्रार्थ्यते।
Footnote
१. ऋ० ८।२३।१४, तपसा इत्यत्र तपुषा इति पाठः। २. श्रुष्टी क्षिप्रम्—इति वि०। श्रुष्टी प्रीत्या—इति भ०। सायणस्तु “स्तोमस्य स्तोत्रं शस्त्रादिकं श्रुष्टी श्रुत्वा। श्रुष्टीति ‘स्नात्व्यादयश्च।’ पा० ७।१।४९ इति निपातितः, वकारलोपश्छान्दसः” इत्याह। परमन्यत्र क्वापि स्ववेदभाष्ये तेन केन-चिदन्येन वा वेदभाष्यकारेण श्रुष्टीशब्दः क्त्वान्तो न व्याख्यातः, सर्वत्र निरुक्तानुसारेण क्षिप्रार्थक एव स्वीकृतः।