Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1059

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ध्व꣣स्र꣡योः꣢ पुरु꣣ष꣢न्त्यो꣣रा꣢ स꣣ह꣡स्रा꣢णि दद्महे । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०५९॥

ध्व꣣स्र꣡योः꣢ । पु꣣रुष꣡न्त्योः꣢ । पु꣣रु । स꣡न्त्योः꣢꣯ । आ । स꣣ह꣡स्रा꣢णि । द꣣द्महे । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०५९॥

Mantra without Swara
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दी धावति ॥

ध्वस्रयोः । पुरुषन्त्योः । पुरु । सन्त्योः । आ । सहस्राणि । दद्महे । तरत् । सः । मन्दी । धावति ॥१०५९॥

Samveda - Mantra Number : 1059
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
ब्रह्मानन्दरूपस्य सोमस्य धारया स्नाताः वयम् (ध्वस्रयोः२) दोषध्वंसकयोः (पुरुषन्त्योः३) बहुदानयोः आत्ममनसोः (सहस्राणि) अनेकसहस्रसंख्यकानि ऐश्वर्याणि (आ दद्महे) गृह्णीमहे, यतः (मन्दी) परमेश्वरस्य स्तोता (सः) आनन्दमग्नः जनः (धावति) स्वात्मानं प्रक्षालयति, (तरत्) दुःखजालं तरति च ॥३॥
Essence
आत्ममनसी उद्बोध्य जनाः सहस्रतोऽप्यधिकान् लाभान् प्राप्तुं शक्नुवन्ति। अन्ते च ते परमात्ममग्नाः सन्तो मोक्षपदं लभन्ते ॥३॥ अत्र सायणाचार्यो ‘ध्वस्रः, पुरुषन्तिः’ इति राजविशेषयोर्नाम्नी मन्यते। तथा च तद्व्याख्यानम्—[“ध्वस्रयोः पुरुषन्त्योः। ध्वस्रः कश्चिद् राजा, पुरुषन्तिः कश्चित्। तयोरुभयोः। अत्र इतरेतरयोगविवक्षया द्विवचनं द्रष्टव्यम्। सहस्राणि, धनानां सहस्राणि, आदद्महे वयं प्रतिगृह्णीमः। तदस्माभिः प्रतिगृहीतं धनमुत्तममस्त्विति ऋषिः सोमं प्रार्थयते इति सोमस्य स्तुतिः”।] इति। तत्तु न समञ्जसम्, सृष्ट्यादौ प्रोक्तेषु वेदेषु पश्चाद्वर्तिन इतिहासस्यासम्भवात् ॥
Subject
अथ ध्वस्रपुरुषन्तिविशेषणाभ्यामात्ममनसोर्विषयमाह।
Footnote
१. ऋ० ९।५८।३। २. ध्वस्राः ध्वंसिकाः इति ऋ० ४।१९।७ भाष्ये द०। ३. ‘पुरुषन्तिम्’ पुरूणां बहूनां सन्तिं विभाजितारम्—इति ऋ० १।११२।२३ भाष्ये द०।