Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1057

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति꣣ धा꣡रा꣢ सु꣣त꣡स्यान्ध꣢꣯सः । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०५७॥

त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति । धा꣡रा꣢꣯ । सु꣣त꣡स्य꣢ । अ꣡न्ध꣢꣯सः । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०५७॥

Mantra without Swara
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥

तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः । तरत् । सः । मन्दी । धावति ॥१०५७॥

Samveda - Mantra Number : 1057
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ (मन्दी) स्तोता। [मन्दी मन्दतेः स्तुतिकर्मणः। निरु० ४।२३।] (सुतस्य) परमेश्वरस्य सकाशात् परिसुतस्य (अन्धसः) ब्रह्मानन्दरूपस्य सोमरसस्य (धारा) धारया (धावति) अन्तरात्मानं प्रक्षालयति। [धावु गतिशुद्ध्योः, भ्वादिः।] (तरत्) तरति च दुःखसागरम्। सत्यम् (मन्दीः सः) मुदितः असौ। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः।] (धावति) लक्ष्यं प्रति वेगेन गच्छति, (तरत्) तरति च ब्रह्मानन्दसागरे। [यास्काचार्येण मन्त्रोऽयम् निरु० १३।६ इत्यत्र व्याख्यातः।] ॥१॥ अत्र प्रथमचरणस्य तृतीयचरणे आवृत्तौ पादावृत्तियमकालङ्कारः ॥१॥
Essence
परमेश्वरस्य ध्याने ये मग्ना जायन्ते ते ततः स्रवन्त्याऽनन्दस्रोतस्विन्या धौता निर्मलात्मानः सन्तस्त्रिविधेभ्योऽपि दुःखेभ्यो निर्मुच्य मुक्ता जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५०० क्रमाङ्के ऐहिकपारलौकिकोत्कर्षविषये व्याख्याता। अत्र मोक्षप्राप्तिविषयो वर्ण्यते।
Footnote
१. ऋ० ९।५८।१, साम० ५००।