Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1056

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
र꣣यिं꣡ न꣢श्चि꣣त्र꣢म꣣श्वि꣢न꣣मि꣡न्दो꣢ वि꣣श्वा꣢यु꣣मा꣡ भ꣢र । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५६॥

र꣣यि꣢म् । नः꣣ । चित्र꣢म् । अ꣣श्वि꣡न꣢म् । इ꣡न्दो꣢꣯ । वि꣣श्वा꣡यु꣢म् । वि꣣श्व꣢ । आ꣣युम् । आ꣢ । भ꣣र । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५६॥

Mantra without Swara
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि ॥

रयिम् । नः । चित्रम् । अश्विनम् । इन्दो । विश्वायुम् । विश्व । आयुम् । आ । भर । अथ । नः । वस्यसः । कृधि ॥१०५६॥

Samveda - Mantra Number : 1056
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) चन्द्रवदाह्लादक परमैश्वर्यशालिन् जगदीश्वर नृपते वा ! त्वम् (नः) अस्मभ्यम् (चित्रम्) अद्भुतम्, चित्रविचित्रम्, (अश्विनम्) आशुगामिनम्, (विश्वायुम्) पूर्णायुष्करम् यद्वा विश्वजनहितकरम्। [आयुष् शब्दवदुकारान्तोऽप्यायुर्वाचक आयुशब्दोऽस्ति। ‘आयु’ इति मनुष्यनामसु च पठितम् निघं० २।३।] (रयिम्) धनम् (आ भर) आहर। (अथ) एवम् (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥१०॥
Essence
तदेव धनं वस्तुतो धनं भवति येन पूर्णमायुर्विश्वेषां मनुष्याणां हितं च साध्यते, यत्तु विलासे संलिप्यायुःक्षयकरं दीनजनविद्वेषकरं च तद्धनं धनं च किन्तु मृत्युरेव ॥१०॥
Subject
अथ पुनरपि परमात्मनृपत्योरेव विषयं प्राह।
Footnote
१. ऋ० ९।४।१०।