Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1055

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्वां꣢ य꣣ज्ञै꣡र꣢वीवृध꣣न्प꣡व꣢मान꣣ वि꣡ध꣢र्मणि । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५५॥

त्वा꣢म् । य꣣ज्ञैः꣢ । अ꣣वीवृधन् । प꣡व꣢꣯मान । वि꣡ध꣢꣯र्मणि । वि । ध꣣र्मणि । अ꣡थ꣢꣯ । नः । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५५॥

Mantra without Swara
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि ॥

त्वाम् । यज्ञैः । अवीवृधन् । पवमान । विधर्मणि । वि । धर्मणि । अथ । नः । वस्यसः । कृधि ॥१०५५॥

Samveda - Mantra Number : 1055
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) जनमानसाय पवित्रतादायक क्रियाशील परमात्मन् राजन् वा ! (विधर्मणि) विशेषधर्मयुक्ते अन्तरात्मनि राष्ट्रे वा (त्वाम्) परमात्मानं राजानं वा (यज्ञैः) उपासनायज्ञैः राष्ट्रयज्ञैर्वा, प्रजाः (अवीवृधन्) वर्धयन्ति। (अथ) अतः (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥९॥
Essence
परमेश्वरमुपासनयाऽन्तरात्मनि संवर्ध्य राजानं च राष्ट्रसेवारूपैर्यज्ञै राष्ट्रे संवर्ध्य ताभ्यां प्राप्तैर्यशोभिर्वसुभिश्च जना यशस्विनो वसुमन्तश्च जायन्ताम् ॥९॥
Subject
अथ पुनः स एव विषय उच्यते।
Footnote
१. ऋ० ९।४।९।