Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1054

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भ्य꣢३र्षा꣡न꣢पच्युतो꣣ वा꣡जि꣢न्त्स꣣म꣡त्सु꣢ सा꣣स꣢हिः । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५४॥

अ꣣भि꣢ । अ꣣र्ष । अ꣡न꣢꣯पच्युतः । अ꣢न् । अ꣣पच्युतः । वा꣡जि꣢꣯न् । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । सा꣣सहिः꣢ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५४॥

Mantra without Swara
अभ्य३र्षानपच्युतो वाजिन्त्समत्सु सासहिः । अथा नो वस्यसस्कृधि ॥

अभि । अर्ष । अनपच्युतः । अन् । अपच्युतः । वाजिन् । समत्सु । स । मत्सु । सासहिः । अथ । नः । वस्यसः । कृधि ॥१०५४॥

Samveda - Mantra Number : 1054
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वाजिन्) बलवन् वीर परमात्मन् राजन् वा ! (अनपच्युतः) अप्रतिस्खलितः, अविचलितः, (समत्सु सासहिः) देवासुरसंग्रामेषु शत्रूणां पराजेता त्वम् (अभ्यर्ष) क्रियाशीलो भव। (अथ) एवं च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥८॥
Essence
परमात्मानमुपास्य राजानं चोद्बोध्य सर्वानान्तरान् बाह्यांश्च सपत्नानुच्छिद्य जना विजयिनो वसुमन्तः सुखिनश्च भवन्तु ॥८॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ९।४।८, ‘र॒यिं स॒मत्सु॑ सास॒हिः’ इति द्वितीयः पादः।