Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1052

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣢व꣣ क्र꣢त्वा꣣ त꣢वो꣣ति꣢भि꣣र्ज्यो꣡क्प꣢श्येम꣣ सू꣡र्य꣢म् । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५२॥

त꣡व꣢꣯ । क्र꣡त्वा꣢꣯ । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । ज्योक् । प꣣श्येम । सू꣡र्य꣢꣯म् । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५२॥

Mantra without Swara
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । अथा नो वस्यसस्कृधि ॥

तव । क्रत्वा । तव । ऊतिभिः । ज्योक् । पश्येम । सूर्यम् । अथ । नः । वस्यसः । कृधि ॥१०५२॥

Samveda - Mantra Number : 1052
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान पवित्रताकारक सोम शुभगुणकर्मप्रेरक परमात्मन् राजन् वा ! (तव क्रत्वा) त्वदीयेन कर्मणा प्रज्ञानेन वा (तव ऊतिभिः) तव रक्षाभिश्च, वयम् (ज्योक्) चिरकालं यावत् (सूर्यम्) आदित्यम् (पश्येम) अवलोकयेम, दीर्घजीविनो भवेमेत्यर्थः। (अथ) अपि च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥६॥
Essence
परमात्मनो नृपतेश्च रक्षां प्रेरणां च प्राप्य विज्ञानवन्तः कर्मवन्तश्च भूत्वा प्रजाजनाः पुरुषायुषजीविनो जायन्ते ॥६॥
Subject
अथ पुनस्तमेव विषयं प्राह।
Footnote
१. ऋ० ९।४।६।