Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1051

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡ꣳ सूर्ये꣢꣯ न꣣ आ꣡ भ꣢ज꣣ त꣢व꣣ क्र꣢त्वा꣣ त꣢वो꣣ति꣡भिः꣢ । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५१॥

त्वम् । सू꣡र्ये꣢꣯ । नः꣣ । आ꣢ । भ꣣ज । त꣡व꣢꣯ । क्र꣡त्वा꣢꣯ । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५१॥

Mantra without Swara
त्वꣳ सूर्ये न आ भज तव क्रत्वा तवोतिभिः । अथा नो वस्यसस्कृधि ॥

त्वम् । सूर्ये । नः । आ । भज । तव । क्रत्वा । तव । ऊतिभिः । अथ । नः । वस्यसः । कृधि ॥१०५१॥

Samveda - Mantra Number : 1051
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगत्स्रष्टः परमात्मन् राष्ट्रस्रष्टः राजन् वा ! (त्वम् तव क्रत्वा) त्वदीयेन कर्मणा प्रज्ञानेन वा, (तव ऊतिभिः) त्वदीयाभिः रक्षाभिश्च (सूर्ये) सूर्यलोके इव प्रकाशमये सर्वोन्नतियुक्ते राष्ट्रे (नः) अस्मान् (आ भज) भागिनः कुरु। (अथ) तदनन्तरं च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥५॥
Essence
यदि परमात्मनः कृपा नृपतेरुद्योगः प्रजाजनानां पुरुषार्थश्च स्यात् तर्हि राष्ट्रे सूर्यसम उन्नतिप्रकाशः सर्वत्र प्रसरेत् ॥५॥
Subject
अथ परमात्मानं राजानं च प्रार्थयते।
Footnote
१. ऋ० ९।४।५।