Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1050

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡वी꣢तारः पुनी꣣त꣢न꣣ सो꣢म꣣मि꣡न्द्रा꣢य꣣ पा꣡त꣢वे । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५०॥

प꣡वी꣢꣯तारः । पु꣣नीत꣡न꣢ । पु꣣नी꣢त । ꣣न । सो꣡म꣢꣯म् । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे । अ꣡थ꣢꣯ । नः । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५०॥

Mantra without Swara
पवीतारः पुनीतन सोममिन्द्राय पातवे । अथा नो वस्यसस्कृधि ॥

पवीतारः । पुनीतन । पुनीत । न । सोमम् । इन्द्राय । पातवे । अथ । नः । वस्यसः । कृधि ॥१०५०॥

Samveda - Mantra Number : 1050
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवीतारः) शोधनकर्मणि संलग्नाः जनाः ! यूयम् (इन्द्राय पातवे) जीवात्मनः पानाय (सोमम्) ज्ञानकर्मोपासनारसम् (पुनीतन) पवित्रयत। [पूञ् पवने, क्र्यादिः, लोण्मध्यमबहुवचने ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इत्यनेन तस्य तनादेशः।] (अथ) तदनन्तरम्, हे पवित्रज्ञानकर्मोपासन मानव ! त्वम् (नः) अस्मानपि (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥४॥
Essence
येषां ज्ञानं च कर्म चौपासनं च पवित्रं भवति तेषां संगत्याऽन्येऽपि पवित्रान्तःकरणा ऐश्वर्यवन्तश्च जायन्ते ॥४॥
Subject
अथ मनुष्यान् प्रेरयति।
Footnote
१. ऋ० ९।४।४।