Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 105

1875 Mantra
Devata- विश्वे देवाः Rishi- ऋजिश्वा भारद्वाजः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢प꣣ त्यं꣡ वृ꣢जि꣣न꣢ꣳ रि꣣पु꣢ꣳ स्ते꣣न꣡म꣢ग्ने दुरा꣣꣬ध्य꣢꣯म् । द꣡वि꣢ष्ठमस्य सत्पते कृ꣣धी꣢ सु꣣ग꣢म् ॥१०५॥

अ꣡प꣢꣯ । त्यम् । वृ꣣जिन꣢म् । रि꣣पु꣢म् । स्ते꣣न꣢म् । अ꣣ग्ने । दुराध्य꣢꣯म् । दुः꣣ । आ꣡ध्य꣢꣯म् । द꣡वि꣢꣯ष्ठम् । अ꣣स्य । सत्पते । सत् । पते । कृधि꣢ । सु꣣ग꣢म् । सु꣣ । ग꣢म् ॥१०५॥

Mantra without Swara
अप त्यं वृजिनꣳ रिपुꣳ स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम् ॥

अप । त्यम् । वृजिनम् । रिपुम् । स्तेनम् । अग्ने । दुराध्यम् । दुः । आध्यम् । दविष्ठम् । अस्य । सत्पते । सत् । पते । कृधि । सुगम् । सु । गम् ॥१०५॥

Samveda - Mantra Number : 105
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सत्पते) सतां पालयितः (अग्ने) पराक्रमशालिन् परमात्मन्, विद्वन्, राजन् वा ! त्वम् (त्यम्) तम् (वृजिनम्) वर्जनीयं पापम्। वृजी वर्जने। वृजिनानि वर्जनीयानि इति निरुक्तम् १०।४१। (रिपुम्) कामक्रोधादिषड्रिपुवर्गम्, बाह्यं शत्रुं वा, (स्तेनम्) चौरम्, (दुर्-आध्यम्२) दुष्टचिन्तनपरायणं द्वेषिणं च। दुर्-आ-ध्यै चिन्तायाम्। (दविष्ठम्) दूरतमं यथा स्यात् तथा। अतिशयेन दूरं दविष्ठम्। दूरशब्दाद् इष्ठनि स्थूलदूर० अ० ६।४।१५६ इति यणादिपरस्य लोपः, पूर्वस्य गुणः। (अप अस्य३) अप क्षिप। असु क्षेपणे, दिवादिः, लोटि मध्यमैकवचने रूपम्। अस्माकं कृते (सुगम्४) सुगम्यं सन्मार्गं च। ‘सुदुरोरधिकरणे।’ अ० ३।२।४८ वा० इत्यनेन अधिकरणेऽर्थे गम् धातोर्डः प्रत्ययः। (कृधी) कुरु, प्रकाशय इत्यर्थः। कुरु इति प्राप्ते श्रुशृणुपॄकृवृभ्यश्छन्दसि। अ० ६।४।१०२ इति हेर्धिः। अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः ॥९॥५ अत्र अर्थश्लेषालङ्कारः ॥९॥
Essence
पापविचाराः पापिनो जना वा, कामक्रोधाद्या आभ्यन्तरा रिपवो बाह्याः शत्रवो वा, स्तेयविचाराः स्तेना वा, दुश्चिन्तनानि दुश्चिन्तनकारिणो वा येऽप्यस्मानाक्रामन्ति तान् वयं परमात्मनो विद्वज्जनानां नृपतेश्च साहाय्येन दूरं प्रक्षिपेम। सद्विचाराः सद्विचारशीला जनाश्च सहयोगिनो भूत्वाऽस्माभिः सार्धं विचरन्तु ॥९॥
Subject
अथ रिपूनपनेतुं प्रार्थयते।
Footnote
१. ऋ० ६।५१।१३ २. दुराध्यं कुत्सितम् आभिमुख्येन ध्यानं यस्य स दुराध्यः तं कुत्सितध्यानम् पापसंकल्पमित्यर्थः—इति वि०। ३. विवरणकारस्तु अस्य इति नामपदमाह—अस्य च रिपोः स्तेनस्य च इति। तत्तु न विचारसहं, स्वरविरोधात्। अपास्य अपक्षिप—इति भ०, सा०। ४. सुगं सुखेन गम्यं पन्थानम्—इति भ०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।