Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1049

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ना꣣ द꣡क्ष꣢मु꣣त꣢꣫ क्रतु꣣म꣡प꣢ सोम꣣ मृ꣡धो꣢ जहि । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०४९॥

स꣡न꣢꣯ । द꣡क्ष꣢꣯म् । उ꣣त꣢ । क्र꣡तु꣢꣯म् । अ꣡प꣢꣯ । सो꣣म । मृ꣡धः꣢꣯ । ज꣣हि । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०४९॥

Mantra without Swara
सना दक्षमुत क्रतुमप सोम मृधो जहि । अथा नो वस्यसस्कृधि ॥

सन । दक्षम् । उत । क्रतुम् । अप । सोम । मृधः । जहि । अथ । नः । वस्यसः । कृधि ॥१०४९॥

Samveda - Mantra Number : 1049
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ऐश्वर्योत्पादनसमर्थ जीवात्मन् ! त्वम् (दक्षम्) बलम् (उत) अपि च (क्रतुम्) कर्म प्रज्ञानं च (सन) संभजस्व। (मृधः) संग्रामकारिणः हिंसकान् कामक्रोधादीन् आन्तरान् बाह्यांश्च शत्रून् (अप जहि) विनाशय। (अथ) एवं स्वोत्कर्षसम्पादनानन्तरम् (नः) अस्मानपि (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥३॥
Essence
मनुष्यः स्वयं बलं कर्म प्रज्ञानं सर्वमप्यैश्वर्यं सञ्चित्य विघ्नकारिणश्च पराजित्य सर्वाग्रणीर्भूत्वाऽन्यानप्युपकुर्यात् ॥३॥
Subject
अथ पुनर्जीवात्मन एव विषय उच्यते।
Footnote
१. ऋ० ९।४।३।