Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1047

1875 Mantra
Devata- पवमानः सोमः Rishi- हिरण्यस्तूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ना꣢ च सोम꣣ जे꣡षि꣢ च꣣ प꣡व꣢मान꣣ म꣢हि꣣ श्र꣡वः꣢ । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०४७॥

स꣡न꣢꣯ । च꣣ । सोम । जे꣡षि꣢꣯ । च꣣ । प꣡व꣢꣯मान । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । ꣣कृधि ॥१०४७॥

Mantra without Swara
सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस्कृधि ॥

सन । च । सोम । जेषि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि ॥१०४७॥

Samveda - Mantra Number : 1047
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) गतिशील, कर्मशूर पवित्रताप्रद (सोम) ऐश्वर्यवन् शुभगुणकर्मप्रेरक जीवात्मन् ! त्वम् (महि श्रवः) महद् यशः, महत् शास्त्रश्रवणं वा (सन२) संभजस्व। [षण सम्भक्तौ, लोटि मध्यमैकवचने रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३५’ इति दीर्घः।] (जेषि च) संसारसमराङ्गणे विजयस्व च। अथ तदनन्तरं च (नः) अस्मानपि (वस्यसः) वसीयसः, अतिशयेन वसुमतः (कृधि) कुरु। [संहितायाम् ‘कः करत्करतिकृधिकृतेष्वनदितेः। अ० ८।३।५०’ इत्यनेन विसर्जनीयस्य सकारादेशः] ॥१॥
Essence
यः स्वयं परमात्मोपासकः पुरुषार्थी गृहीतशास्त्रमर्यादो विजयशीलश्चास्ति स एवान्यान् प्रशस्तगुणकर्मवतः परमैश्वर्यशालिनः कर्त्तुं शक्नोति ॥१॥
Subject
अथ सोमनाम्ना जीवात्मानमुद्बोधयति।
Footnote
१. ऋ० ९।४।१। २. सनाशब्दः सदावाची। सदा जेषि च शत्रून्—इति वि०। सायणमते तु ‘सना’ इति क्रियापदम् ‘द्व्यचोऽतस्तिङः’ (६।३।१३५) इति दीर्घः। विवरणकारमते तु ‘सना’ सदार्थमव्ययमिति ‘निपातस्य च’ (६।३।१३६) इति दीर्घः—इति सामश्रमी।