Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1046

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣स्म꣡भ्य꣢मिन्दविन्द्रि꣣यं꣡ मधोः꣢꣯ पवस्व꣣ धा꣡र꣢या । प꣣र्ज꣡न्यो꣢ वृष्टि꣣मा꣡ꣳ इ꣢व ॥१०४६॥

अ꣣स्म꣡भ्य꣢म् । इ꣣न्दो । इन्द्रिय꣢म् । म꣡धोः꣢꣯ । प꣣वस्व । धा꣡र꣢꣯या । प꣣र्ज꣡न्यः꣢ । पृ꣣ष्टिमा꣢न् । इ꣣व ॥१०४६॥

Mantra without Swara
अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया । पर्जन्यो वृष्टिमाꣳ इव ॥

अस्मभ्यम् । इन्दो । इन्द्रियम् । मधोः । पवस्व । धारया । पर्जन्यः । पृष्टिमान् । इव ॥१०४६॥

Samveda - Mantra Number : 1046
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) रसागार करुणावरुणालय परमेश ! (वृष्टिमान्) वृष्टिकर्ता (पर्जन्यः इव) मेघः इव, त्वम् (मधोः) मधुरस्य आनन्दरसस्य (धारया) प्रवाहसन्तत्या सह (अस्मभ्यम्) उपासकेभ्यो नः (इन्द्रियम्) इन्द्रेण जीवात्मना जुष्टम् आत्मबलम् (पवस्व) प्रक्षर ॥१०॥ अत्रोपमालङ्कारः ॥१०॥
Essence
पर्जन्यस्य रसवृष्ट्या पृथिवीव परमेश्वरस्यानन्दवृष्ट्या मनुष्यस्यात्मभूमिः सरसा सद्गुणप्ररोहा हरिता भरिता च जायते ॥१०॥ अस्मिन् खण्डे परमात्मनो गुणकर्मणामुपास्योपासकसंबन्धस्य ब्रह्मानन्दरसस्य प्रसङ्गतः पर्जन्यस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥
Subject
अथ परमेश्वरं प्रार्थयते।
Footnote
१. ऋ० ९।२।९ ‘विन्द्रियं मधोः’ इत्यत्र ‘विन्द्र॒युर्मध्वः॑’ इति पाठः।