Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1045

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
गो꣣षा꣡ इ꣢न्दो नृ꣣षा꣡ अ꣢स्यश्व꣣सा꣡ वा꣢ज꣣सा꣢ उ꣣त꣢ । आ꣣त्मा꣢ य꣣ज्ञ꣡स्य꣢ पू꣣र्व्यः꣢ ॥१०४५॥

गो꣣षाः꣢ । गो꣢ । साः꣢ । इ꣣न्दो । नृषाः꣢ । नृ꣣ । साः꣢ । अ꣣सि । अश्वसाः꣢ । अ꣣श्व । साः꣢ । वा꣣जसाः꣢ । वा꣣ज । साः꣢ । उ꣣त꣢ । आ꣣त्मा꣢ । य꣣ज्ञ꣡स्य꣢ । पू꣣र्व्यः꣢ ॥१०४५॥

Mantra without Swara
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः ॥

गोषाः । गो । साः । इन्दो । नृषाः । नृ । साः । असि । अश्वसाः । अश्व । साः । वाजसाः । वाज । साः । उत । आत्मा । यज्ञस्य । पूर्व्यः ॥१०४५॥

Samveda - Mantra Number : 1045
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन्, आनन्दरसेन क्लेदयितः परमात्मदेव ! त्वम् (गोषाः) गाः धेनूः वेदवाचः पृथिवीः इन्द्रियाणि वा सनोति ददातीति तादृशः, (नृषाः) नॄन् पुरुषार्थिनः वीरान् सन्तानान् सनोति ददातीति तादृशः, (अश्वसाः) अश्वान् तुरङ्गान् प्राणान् वा सनोति ददातीति तथाविधः, (उत) अपि च (वाजसाः) वाजं बलम् अन्नं धनं विज्ञानं वा सनोति ददातीति तथाविधः (असि) वर्तसे। त्वम् (यज्ञस्य) परोपकाररूपस्य अध्वरस्य (पूर्व्यः) पूर्वकालादागतः (आत्मा) प्राणः, असि ॥९॥
Essence
अहो, महान्तः किल जगदीश्वरस्योपकारा योऽस्मभ्यमनेकानि बहुमूल्यानि वस्तून्युत्पाद्य ददाति, एवं च कुर्वन्नसौ सर्वान् परोपकारमुपदिशति ॥९॥
Subject
अथ परमात्मनो गुणकर्माणि वर्णयसि।
Footnote
१. ऋ० ९।२।१०।