Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1043

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
गि꣡र꣢स्त इन्द꣣ ओ꣡ज꣢सा मर्मृ꣣ज्य꣡न्ते꣢ अप꣣स्यु꣡वः꣢ । या꣢भि꣣र्म꣡दा꣢य꣣ शु꣡म्भ꣢से ॥१०४३॥

गि꣡रः꣢꣯ । ते꣣ । इन्दो । ओ꣡ज꣢꣯सा । म꣣र्मृज्य꣡न्ते꣢ । अ꣣पस्यु꣡वः꣢ । या꣡भिः꣢꣯ । म꣡दा꣢꣯य । शु꣡म्भ꣢꣯से ॥१०४३॥

Mantra without Swara
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे ॥

गिरः । ते । इन्दो । ओजसा । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भसे ॥१०४३॥

Samveda - Mantra Number : 1043
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) परमेश्वरोपासक मानव ! (ते) तव (अपस्युवः) कर्मकामाः। [अपः कर्माणि आत्मनः कामयन्ते इति अपस्युवः। क्यचि उः प्रत्ययः।] (गिरः) वाचः, त्वाम् (ओजसा) तेजसा (मर्मृज्यन्ते) भृशं पुनः पुनः अलङ्कुर्वन्ति, (याभिः) गीर्भिः, त्वम् (मदाय) आनन्दाय (शुम्भसे) शोभसे ॥७॥
Essence
वाक् कर्मणैव साकं मनुष्यस्य भूषणं भवति, न निष्क्रिया ॥७॥
Subject
अथोपासकः सम्बोध्यते।
Footnote
१. ऋ० ९।२।७।