Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1042

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥१०४२॥

अ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥१०४२॥

Mantra without Swara
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥

अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥१०४२॥

Samveda - Mantra Number : 1042
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
परमेश्वरस्यैवायं महिमा यत् (हरिः) वायुना इतस्ततो ह्रियमाणः (वृषाः) वर्षकः पर्जन्यः (मित्रः न) सुहृदिव (दर्शतः) दर्शनीयो भवति। किञ्च स पर्जन्यः (सूर्येण) आदित्यद्वारा (सं दिद्युते) सम्यक् दीप्यते, विद्युच्छटाभिर्भासते ॥६॥ अत्रोपमालङ्कारः ॥६॥
Essence
पर्जन्यो यदा गर्जति विद्युतं विद्योतयति वर्षति च तदा ग्रीष्मतापेन तप्ता जनास्तस्य मित्रवत् स्वागतं कुर्वन्ति। पर्जन्यस्य य उपकारास्सन्ति ते वस्तुतः परमेश्वरस्यैवोपकारा मन्तव्यास्तेनैव तस्य सञ्चालितत्वात् ॥६॥
Subject
षष्ठी ऋक् पूर्वार्चिके ४९७ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र पर्जन्यवर्णनमुखेन परमात्ममहिमानं प्रकटयति।
Footnote
१. ऋ० ९।२।६, साम० ४९७।