Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1041

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣣मुद्रो꣢ अ꣣प्सु꣡ मा꣢मृजे विष्ट꣣म्भो꣢ ध꣣रु꣡णो꣢ दि꣣वः꣢ । सो꣡मः꣢ प꣣वि꣡त्रे꣢ अस्म꣣युः꣢ ॥१०४१॥

स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । अ꣣प्सु꣢ । मा꣣मृजे । विष्टम्भः꣢ । वि꣣ । स्तम्भः꣢ । ध꣣रु꣡णः꣢ । दि꣣वः꣢ । सो꣡मः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣स्मयुः꣢ ॥१०४१॥

Mantra without Swara
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥

समुद्रः । सम् । उद्रः । अप्सु । मामृजे । विष्टम्भः । वि । स्तम्भः । धरुणः । दिवः । सोमः । पवित्रे । अस्मयुः ॥१०४१॥

Samveda - Mantra Number : 1041
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(समुद्रः) आनन्दरसान् उद्रेचयिता। [समुद्रः कस्मात् ? समुद्द्रवन्त्यस्मादापः। निरु० २।१०।] (विष्टम्भः) सर्वेषामाश्रयदाता, (दिवः) सूर्यस्य (धरुणः) धारकः। [धरतीति धरुणः। धृञ् धारणे बाहुलकादौणादिकः उन प्रत्ययः।] (अस्मयुः) अस्मान् कामयमानः (सोमः) जगत्स्रष्टा परमेश्वरः (पवित्रे) वायौ। [वायुः पवित्रमुच्यते। निरु० ५।६।] (अप्सु) उदकेषु च (मामृजे) नित्यं मार्जनं शुद्धिं करोति। [पवित्रम् अपः ममृजे इति प्राप्ते द्वितीयार्थे सप्तमी। मृजूष् शुद्धौ, लिटि ‘तुजादीनां दीर्घोभ्यासस्य। अ० ६।१।७’ इत्यभ्यासदीर्घः] ॥५॥
Essence
यदि जलवाय्वादीन् प्राकृतिकपदार्थान् सूर्यद्वारा दिने दिने जगदीश्वरो नामार्क्ष्यत् तर्हि मलानां पुञ्जभूतास्ते कस्यचिदुपयोगयोग्या अपि नाभविष्यन् ॥५॥
Subject
अथ परमात्मनः शुद्धिकार्यं वर्णयति।
Footnote
१. ऋ० ९।२।५।