Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1040

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
म꣣हा꣡न्तं꣢ त्वा म꣣ही꣡रन्वापो꣢꣯ अर्षन्ति꣣ सि꣡न्ध꣢वः । य꣡द्गोभि꣢꣯र्वासयि꣣ष्य꣡से꣢ ॥१०४०॥

म꣣हा꣡न्त꣢म् । त्वा꣣ । महीः꣢ । अ꣡नु꣢꣯ । आ꣡पः꣢꣯ । अ꣣र्षन्ति । सि꣡न्ध꣢꣯वः । यत् । गो꣡भिः꣢꣯ । वा꣣सयिष्य꣡से꣢ ॥१०४०॥

Mantra without Swara
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे ॥

महान्तम् । त्वा । महीः । अनु । आपः । अर्षन्ति । सिन्धवः । यत् । गोभिः । वासयिष्यसे ॥१०४०॥

Samveda - Mantra Number : 1040
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगत्स्रष्टः परमात्मन् ! (महान्तम्) अतिशयमहिमवन्तम् (त्वाम् अनु) त्वाम् अनुसृत्य, त्वदादेशानुसारेणेत्यर्थः (महीः) महत्यः, (सिन्धवः) स्यन्दमानाः प्रवहणशीलाः (आपः) नद्यः (अर्षन्ति) गच्छन्ति, (यत्) यस्मात्, त्वम् (गोभिः) सूर्यरश्मिभिः (वासयिष्यसे) वृष्टिद्वारा ताः निवासयिष्यसि ॥४॥
Essence
नद्यादयः सर्वे पदार्थाः परमात्मनिर्धारितनियमानुसारेणैव चलन्ति, यतः स जगतः सम्राडस्ति ॥४॥
Subject
अथ परमात्मनो महिमानमाह।
Footnote
१. ऋ० ९।२।४।