Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 104

1875 Mantra
Devata- अग्निः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
न꣡ तस्य꣢꣯ मा꣣य꣡या꣢ च꣣ न꣢ रि꣣पु꣡री꣢शीत꣣ म꣡र्त्यः꣢ । यो꣢ अ꣣ग्न꣡ये꣢ द꣣दा꣡श꣢ ह꣣व्य꣡दा꣢तये ॥१०४॥

न꣢ । त꣡स्य꣢꣯ । मा꣣य꣡या꣢ । च꣣ । न꣢ । रि꣣पुः꣢ । ई꣣शीत । म꣡र्त्यः꣢꣯ । यः । अ꣣ग्न꣡ये꣢ । द꣣दा꣡श꣢ । ह꣣व्य꣡दा꣢तये । ह꣣व्य꣢ । दा꣣तये ॥१०४॥

Mantra without Swara
न तस्य मायया च न रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये ॥

न । तस्य । मायया । च । न । रिपुः । ईशीत । मर्त्यः । यः । अग्नये । ददाश । हव्यदातये । हव्य । दातये ॥१०४॥

Samveda - Mantra Number : 104
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मायया च न२) छलेन अपि (तस्य) परमात्मोपासकस्य (मर्त्यः) मानवः (रिपुः) शत्रुः (न ईशीत) न ईशितुं वशं नेतुं शक्नोति, (यः) परमात्मोपासकः (हव्यदातये) हव्यानां देयानां विजयपराक्रमादीनां दातिः दानं यस्मात् तस्मै। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (अग्नये) जगन्नायकाय परमेश्वराय (ददाश) आत्मसमर्पणरूपं हविः प्रयच्छति। दाशृ दाने धातोर्लडर्थे लिट् ॥८॥
Essence
विविधविघ्नबाधासंकटजालैराकीर्णेऽस्मिन् जगत्यनेके मर्त्याः शत्रवो विद्वेषविषदिग्धाः सन्तः सज्जनान् वञ्चयितुं वा लुण्ठितुं वा दग्धुं वा हन्तुं वा प्रयतन्ते। परं ये जनाः परमात्मने स्वात्मसमर्पणं कृत्वा तं शत्रुपराजयाय बलं याचन्ते तान् स पुरुषार्थे नियुज्य तथा विजयक्षमान् करोति यथा बलवन्तोऽपि बहुसंख्या अपि शत्रवो माययापि तान् वशं नेतुं न प्रभवन्ति ॥८॥
Subject
अथ परमात्माग्नये हविर्दानेन किं फलं भवतीत्युच्यते।
Footnote
१. ऋ० ८।२३।१५, चन इति समस्तः, हव्यदातिभिः इति च पाठः। २. च न इति निपातद्वयं सह प्रयुक्तं सद् अप्यर्थे प्रायशो दृश्यते। ऋग्वेदे चन इत्येकपदतयैव पाठः पदकारेणापि तत्र पदद्वयतया न विभक्तम्। सामपदकारस्तु च न इति पृथक्त्वेन पठति, तत्रापि अप्यर्थ-ग्रहणे न कापि क्षतिः। अत्र—“मायया प्रज्ञया च। न शब्दः पूरणः—इति वि०। चनेति चार्थे—इति भ०। चनेति निपातसमुदायोऽप्यर्थे, मायया चन माययाऽपि—इति सा०।”