Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1038

1875 Mantra
Devata- पवमानः सोमः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ व꣢च्यस्व꣣ म꣢हि꣣ प्स꣢रो꣣ वृ꣡षे꣢न्दो द्यु꣣म्न꣡व꣢त्तमः । आ꣡ योनिं꣢꣯ धर्ण꣣सिः꣡ स꣢दः ॥१०३८॥

आ । व꣣च्यस्व । म꣡हि꣢꣯ । प्स꣡रः꣢꣯ । वृ꣡षा꣢꣯ । इ꣣न्दो । द्युम्न꣡व꣢त्तमः । आ । यो꣡नि꣢꣯म् । ध꣣र्णसिः꣢ । स꣣दः ॥१०३८॥

Mantra without Swara
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः । आ योनिं धर्णसिः सदः ॥

आ । वच्यस्व । महि । प्सरः । वृषा । इन्दो । द्युम्नवत्तमः । आ । योनिम् । धर्णसिः । सदः ॥१०३८॥

Samveda - Mantra Number : 1038
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे परमात्मन् ! त्वम् अस्माभिः (आ वच्यस्व) आ स्तूयस्व। [वच परिभाषणे, कर्मणि लोण्मध्यमैकवचने उच्यस्व इति प्राप्ते सम्प्रसारणाभावश्छान्दसः।] त्वम् अस्मभ्यम् (महि प्सरः) सत्यन्यायशौर्यदयादाक्षिण्यादिकं महद् रूपम्, प्रयच्छेति शेषः। हे (इन्दो) रसागार, रसेन क्लेदक भगवन् ! त्वम् (वृषा) आनन्दवर्षकः, (द्युम्नवत्तमः) तेजस्वितमश्च, असि। (धर्णसिः) जगद्धारकः त्वम्। [धृञ् धारणे धातोः ‘सानसिवर्णसिपर्णसि०। उ० ४।१०८’ इति बाहुलकाद् असि प्रत्ययो नुगागमश्च।] (योनिम्) अस्माकम् आत्मसदनम्। [योनिः गृहनाम। निघं० ३।४।] (आसदः) आसीद ॥२॥ अत्र जगद्धारको विराट् परमेश्वरः स्वल्पे जीवात्मगृहे कथं समेयादिति विरूपसंघटनारूपो विषमालङ्कारः ॥२॥
Essence
आराधितः परमेश्वर उपासकस्यान्तरात्मन्यानन्दं वर्षं वर्षं तं महदुपकरोति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।२।२।