Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1036

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ते꣡ विश्वा꣢꣯ दा꣣शु꣢षे꣣ व꣢सु꣣ सो꣡मा꣢ दि꣣व्या꣢नि꣣ पा꣡र्थि꣢वा । प꣡व꣢न्ता꣣मा꣡न्तरि꣢꣯क्ष्या ॥१०३६॥

ते । वि꣡श्वा꣢꣯ । दा꣣शु꣡षे꣢ । व꣡सु꣢꣯ । सो꣡माः꣢꣯ । दि꣣व्या꣡नि꣢ । पा꣡र्थि꣢꣯वा । प꣡व꣢꣯न्ताम् । आ । अ꣣न्त꣡रि꣢क्ष्या ॥१०३६॥

Mantra without Swara
ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । पवन्तामान्तरिक्ष्या ॥

ते । विश्वा । दाशुषे । वसु । सोमाः । दिव्यानि । पार्थिवा । पवन्ताम् । आ । अन्तरिक्ष्या ॥१०३६॥

Samveda - Mantra Number : 1036
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ते सोमाः) उपासकस्यात्मनि प्रस्रवन्तः ते ब्रह्मानन्दरसाः (दाशुषे) परमात्मानं प्रति आत्मसमर्पकाय तस्मै उपासकाय (दिव्यानि) आनन्दमयविज्ञानमयलोकसम्बद्धानि, (पार्थिवा) पार्थिवानि अन्नमयप्राणमयलोकसम्बद्धानि, (आन्तरिक्ष्या) आन्तरिक्ष्याणि मनोमयलोकसम्बद्धानि च (विश्वा वसु) सर्वाणि वसूनि, ऐश्वर्याणि (पवन्ताम्) प्रवाहयन्तु। [विश्वा, वसु, पार्थिवा, आन्तरिक्ष्या इति सर्वत्र ‘शेश्छन्दसि बहुलम्’। अ० ६।१।७० इत्यनेन शसः शेर्लोपः] ॥३॥
Essence
ब्रह्मानन्देऽधिगते सति देहप्राणमनोबुद्ध्यात्मसम्बद्धाः सर्वा अपि सम्पदः सिद्धयो वा योगिभिः प्राप्यन्ते ॥३॥
Subject
अथ ब्रह्मानन्दरसाः किं कुर्वन्त्वित्याह।
Footnote
१. ऋ० ९।३६।५, ‘ते’ ‘सोमाः’, ‘पवन्ताम्’ इत्यत्र ‘स’ ‘सोमो’ ‘पवताम्’ इति पाठः। ऋ० ९।६४।६।