Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1035

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
शु꣣म्भ꣡मा꣢ना ऋता꣣यु꣡भि꣢र्मृ꣣ज्य꣡मा꣢ना꣣ ग꣡भ꣢स्त्योः । प꣡व꣢न्ते꣣ वा꣡रे꣢ अ꣣व्य꣡ये꣢ ॥१०३५॥

शु꣣म्भ꣡मा꣢नाः । ऋ꣣तायु꣡भिः꣢ । मृ꣣ज्य꣢मा꣢नाः । ग꣡भ꣢꣯स्त्योः । प꣡व꣢꣯न्ते । वा꣡रे꣢꣯ । अ꣣व्य꣡ये꣢ ॥१०३५॥

Mantra without Swara
शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः । पवन्ते वारे अव्यये ॥

शुम्भमानाः । ऋतायुभिः । मृज्यमानाः । गभस्त्योः । पवन्ते । वारे । अव्यये ॥१०३५॥

Samveda - Mantra Number : 1035
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(शुम्भमानाः) शोभमानाः, [शुम्भ शोभार्थे, तुदादिः।] (ऋतायुभिः) अध्यात्मयज्ञेच्छुभिः। [ऋतायुः यज्ञकामः। निरु० १०।४५। ऋतम् उपासनायज्ञमात्मनः कामयन्ते इति ऋतायवः तैः।] (गभस्त्योः) मनोबुद्धिरूपयोः द्यावापृथिव्योः (मृज्यमानाः) अलङ्क्रियमाणाः, [मृजू शौचालङ्कारयोः।] सोमाः ब्रह्मानन्दरसाः (अव्यये) अविनाशिनि (वारे) दोषाणां वारके अन्तरात्मनि (पवन्ते) प्रवहन्ति ॥२॥
Essence
धर्ममेघसमाधौ यदा योगिनोऽन्तरात्मनि ब्रह्मानन्दनिर्झरा निर्झरन्ति तदा तस्य मनोबुद्धिप्राणेन्द्रियादीनि सर्वाण्यपि रससिक्तानीव जायन्ते ॥२॥
Subject
अथ पुनरपि ब्रह्मानन्दरसप्रवाहं वर्णयति।
Footnote
१. ऋ० ९।६४।५।