Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1034

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡सृ꣢क्षत꣣ प्र꣢ वा꣣जि꣡नो꣢ ग꣣व्या꣡ सोमा꣢꣯सो अश्व꣣या꣢ । शु꣣क्रा꣡सो꣢ वीर꣣या꣡शवः꣢꣯ ॥१०३४॥

अ꣡सृ꣢꣯क्षत । प्र । वा꣣जि꣡नः꣢ । ग꣣व्या꣢ । सो꣡मा꣢꣯सः । अ꣣श्वया । शु꣣क्रा꣡सः꣢ । वी꣣रया꣢ । आ꣣श꣡वः꣢ ॥१०३४॥

Mantra without Swara
असृक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः ॥

असृक्षत । प्र । वाजिनः । गव्या । सोमासः । अश्वया । शुक्रासः । वीरया । आशवः ॥१०३४॥

Samveda - Mantra Number : 1034
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजिनः) बलवन्तः, (शुक्रासः) पवित्राः, (आशवः) आशुगामिनः (सोमासः) ब्रह्मानन्दरसाः (गव्या) गवाम् इन्द्रियाणाम् इन्द्रियबलानां प्राप्तीच्छया, (अश्वया) अश्वानां प्राणानां प्राणबलानां प्राप्तीच्छया, (वीरया) वीराणां वीरभावानां प्राप्तीच्छया च (प्र असृक्षत) ब्रह्मणः सकाशात् प्रसृज्यन्ते अभिषूयन्ते ॥१॥
Essence
उपासकस्यात्मनि यदा ब्रह्मानन्दरसधाराः प्रवहन्ति तदा मनोबुद्धिप्राणेन्द्रियादीनां सात्त्विकं बलं स्वयमेवोपतिष्ठते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४८२ क्रमाङ्के भक्तिरसविषये व्याख्याता। अत्र ब्रह्मानन्दरसप्रवाहो वर्ण्यते।
Footnote
१. ऋ० ९।६४।४, साम० ४८२।