Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1033

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रय ऋषयः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣢ग्रे꣣ सि꣡न्धू꣢नां꣣ प꣡व꣢मानो अर्ष꣣त्य꣡ग्रे꣢ वा꣣चो꣡ अ꣢ग्रि꣣यो꣡ गोषु꣢꣯ गच्छसि । अ꣢ग्रे꣣ वा꣡ज꣢स्य भजसे म꣣ह꣡द्धन꣢꣯ꣳ स्वायु꣣धः꣢ सो꣣तृ꣡भिः꣢ सोम सूयसे ॥१०३३॥

अ꣡ग्रे꣢꣯ । सि꣡न्धू꣢꣯नाम् । प꣡व꣢꣯मानः । अ꣡र्षसि । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । अ꣡ग्रियः꣢ । गो꣡षु꣢꣯ । ग꣣च्छसि । अ꣡ग्रे꣢꣯ । वा꣡ज꣢꣯स्य । भ꣣जसे । मह꣢त् । ध꣡न꣢꣯म् । स्वा꣣यु꣢धः । सु꣡ । आयुधः꣢ । सो꣣तृ꣡भिः꣢ । सो꣣म । सूयसे ॥१०३३॥

Mantra without Swara
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि । अग्रे वाजस्य भजसे महद्धनꣳ स्वायुधः सोतृभिः सोम सूयसे ॥

अग्रे । सिन्धूनाम् । पवमानः । अर्षसि । अग्रे । वाचः । अग्रियः । गोषु । गच्छसि । अग्रे । वाजस्य । भजसे । महत् । धनम् । स्वायुधः । सु । आयुधः । सोतृभिः । सोम । सूयसे ॥१०३३॥

Samveda - Mantra Number : 1033
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम जगत्स्रष्टः परमात्मन् ! (पवमानः) पवित्रकर्ता त्वम् (सिन्धूनाम्) नदीनाम् (अग्रे) अग्रतः (अर्षसि) गच्छसि, त्वमेव ताः प्रवाहयसीत्यर्थः। (वाचः) मनुष्यैः प्रोच्यमानायाः वाण्याः (अग्रे) अग्रतः (गच्छसि) यासि, त्वत्प्रदत्तया शक्त्यैव जनाः व्यक्तां वाचमुच्चारयन्तीत्यर्थः। (अग्रियः) अग्रे भवः सन्। [‘अग्राद्यत्’ अ० ४।४।११६ इत्यनुवृत्तौ ‘घच्छौ च’। अ० ४।४।११७ इत्यनेन अग्रशब्दाद् भावार्थे घप्रत्ययः।] (गोषु) सूर्यकिरणेषु (गच्छसि) यासि, सूर्यकिरणान् त्वमेव प्रकाशयसि प्रेरयसि चेत्यर्थः। अपि च (वाजस्य) अन्नस्य संग्रामस्य वा (अग्रे) अग्रतः गच्छसि, अन्नाद्युत्पत्तिं संग्रामे विजयं चापि त्वमेव कारयसीत्यर्थः। त्वम् (महद्) धनम् विपुलम् ऐश्वर्यम् (भजसे) प्राप्नोषि। हे (सोम) परमात्मन् ! (स्वायुधः) सुशस्त्रास्त्रः सेनापतिरिव रक्षासमर्थः त्वम् (सोतृभिः) ध्यानयज्ञं कुर्वद्भिः उपासकैः (सूयसे) अभिषूय आनन्दं क्षार्यसे ॥३॥
Essence
बाह्ये जगति शरीराभ्यन्तरे च संजायमानां सर्वां व्यवस्थां सर्वान्तर्यामी परमेश्वर एव कारयति ॥३॥
Subject
अथ परमेश्वरस्य कर्तृत्वमाह।
Footnote
१. ऋ० ९।८६।१२ ऋषिः सिकता निवावरी। ‘अर्ष॒त्यग्रे॑’ ‘गच्छति’ ‘अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑’ इति पाठः।