Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1032

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रय ऋषयः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣣भि꣡क्रन्द꣢न्क꣣ल꣡शं꣢ वा꣣꣬ज्य꣢꣯र्षति꣣ प꣡ति꣢र्दि꣣वः꣢ श꣣त꣡धा꣢रो विचक्ष꣣णः꣢ । ह꣡रि꣢र्मि꣣त्र꣢स्य꣣ स꣡द꣢नेषु सीदति मर्मृजा꣣नो꣡ऽवि꣢भिः꣣ सि꣡न्धु꣢भि꣣र्वृ꣡षा꣢ ॥१०३२॥

अ꣣भिक्र꣡न्द꣢न् । अ꣣भि । क्र꣡न्द꣢꣯न् । क꣣ल꣡श꣢म् । वा꣡जी꣢ । अ꣣र्षति । प꣡तिः꣢꣯ । दि꣣वः꣢ । श꣡त꣢धा꣢रः । श꣣त꣢ । धा꣣रः । विचक्षणः꣣ । वि꣢ । चक्षणः꣢ । ह꣡रिः꣢꣯ । मि꣣त्र꣡स्य꣢ । मि꣢ । त्र꣡स्य꣢꣯ । स꣡द꣢꣯नेषु । सी꣣दति । मर्मृजानः꣢ । अ꣡वि꣢꣯भिः । सि꣡न्धु꣢꣯भिः । वृ꣡षा꣢꣯ ॥१०३२॥

Mantra without Swara
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥

अभिक्रन्दन् । अभि । क्रन्दन् । कलशम् । वाजी । अर्षति । पतिः । दिवः । शतधारः । शत । धारः । विचक्षणः । वि । चक्षणः । हरिः । मित्रस्य । मि । त्रस्य । सदनेषु । सीदति । मर्मृजानः । अविभिः । सिन्धुभिः । वृषा ॥१०३२॥

Samveda - Mantra Number : 1032
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—पर्जन्यपरः। (वाजी) बलवान् सोमः वर्षकः पर्जन्यः (अभिक्रन्दन्) स्तनयन्, वृष्टिजलेन (कलशम्) भूमण्डलरूपं घटम् (अर्षति) गच्छति। सः (दिवः पतिः) अन्तरिक्षस्य अधिपतिः, (शतधारः) बहुधारः (विचक्षणः) कार्यकुशलश्च वर्तते। (हरिः) उदकानां यत्र तत्र हर्ता सः (मित्रस्य) सूर्यस्य (सदनेषु) स्थितिस्थानेषु पर्वतादिषु (सीदति) गच्छति। किञ्च (वृषा) वर्षकः सः (अविभिः) गन्त्रीभिः, वेगगामिनीभिः। [अवतिर्गत्यर्थः।] (सिन्धुभिः) नदीभिः (मर्मृजानः) अतिशयेन भूभागान् शोधयन् भवति ॥ द्वितीयः—परमात्मपरः (वाजी) बलवान् (सोमः) आनन्दवर्षकः परमात्मा (अभिक्रन्दन्) उपदिशन् (कलशम्) आत्मरूपं घटम् (अर्षति) गच्छति। सः (दिवः पतिः) जीवात्मनः पालयिता, (शतधारः) आनन्दस्य बह्वीनां धाराणां प्रवाहकः, (विचक्षणः) विशेषेण द्रष्टा च वर्तते। (हरिः) पापहर्ता सः (मित्रस्य) सख्युः जीवात्मनः (सदनेषु) अन्नमयप्राणमयमनोमयादिकोशेषु (सीदति) आस्ते। किञ्च (वृषा) सुखवर्षकः सः (अविभिः) रक्षिकाभिः (सिन्धुभिः) आनन्दरसतरङ्गिणीभिः (मर्मृजानः) उपासकस्यान्तःकरणं शोधयन् भवति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
पर्जन्यस्य जलवृष्ट्या पृथिवीव परमात्मन आनन्दरसवृष्ट्या योगसाधकस्य मनोभूमिः सरसा निर्मला च जायते ॥२॥
Subject
अथ वर्षकं पर्जन्यं परमात्मानं च वर्णयति।
Footnote
१. ऋ० ९।८६।११, ऋषिः सिकता निवावरी।