Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1031

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रय ऋषयः Chhand- जगती Swara- निषादः
Mantra with Swara
ज्यो꣡ति꣢र्य꣣ज्ञ꣡स्य꣢ पवते꣣ म꣡धु꣢ प्रि꣣यं꣢ पि꣣ता꣢ दे꣣वा꣡नां꣢ जनि꣣ता꣢ वि꣣भू꣡व꣢सुः । द꣡धा꣢ति꣣ र꣡त्न꣢ꣳ स्व꣣ध꣡यो꣢रपी꣣꣬च्यं꣢꣯ म꣣दि꣡न्त꣢मो मत्स꣣र꣡ इ꣢न्द्रि꣣यो꣡ रसः꣢꣯ ॥१०३१॥

ज्यो꣡तिः꣢꣯ । य꣣ज्ञ꣡स्य꣢ । प꣣वते । म꣡धु꣢꣯ । प्रि꣣य꣢म् । पि꣡ता꣢ । दे꣣वा꣡ना꣢म् । ज꣣निता꣢ । वि꣣भू꣡व꣢सुः । वि꣣भु꣢ । व꣣सुः । द꣡धा꣢꣯ति । र꣡त्न꣢꣯म् । स्व꣡ध꣢꣯योः । स्व꣣ । ध꣡योः꣢꣯ । अ꣣पीच्य꣢म् । म꣣दि꣡न्त꣢मः । म꣣त्सरः꣢ । इ꣣न्द्रियः꣢ । र꣡सः꣢꣯ ॥१०३१॥

Mantra without Swara
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । दधाति रत्नꣳ स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥

ज्योतिः । यज्ञस्य । पवते । मधु । प्रियम् । पिता । देवानाम् । जनिता । विभूवसुः । विभु । वसुः । दधाति । रत्नम् । स्वधयोः । स्व । धयोः । अपीच्यम् । मदिन्तमः । मत्सरः । इन्द्रियः । रसः ॥१०३१॥

Samveda - Mantra Number : 1031
(Kauthum) उत्तरार्चिकः: » Prapathak » 4; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 7; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यज्ञस्य ज्योतिः) देवपूजासंगतिकरणदानाद्यात्मकस्य यज्ञस्य प्रकाशकः, (देवानाम्) प्रकाशकानां सूर्यचन्द्रादीनां विदुषां वा (पिता) पालकः, (जनिता) सर्वेषां जनयिता, (विभूवसुः) प्रभूतधनः व्यापकधनो वा पवमानः सोमः पावकः जगत्पतिः परमेश्वरः (प्रियं मधु) प्रीतिकरं मधुरं वृष्टिजलं ज्ञानरसम् आनन्दरसं वा (पवते) भूमौ उपासकस्यान्तरात्मनि वा प्रवाहयति, अपि च (स्वधयोः) द्यावापृथिव्योः। [स्वधे इति द्यावापृथिव्योर्नाम। निघं० ३।३०।] (अपीच्यम्) अन्तर्हितम्। [अपीच्यमिति निर्णीतान्तर्हितनाम। निघं० ३।२५।] (रत्नम्) रजतसुवर्णमणिमुक्तादिकम् (दधाति) पुष्णाति। अस्य (इन्द्रियः रसः) इन्द्रेण जीवात्मना जुष्टः ज्ञानरसः आनन्दरसो वा (मत्सरः) स्फूर्तिजनकः। [मदी हर्षे, ‘कृधूमदिभ्यः कित्’। उ० ३।७३ इत्यनेन सरन् प्रत्ययः।] (मदिन्तमः) अतिशयेन उत्साहप्रदश्च भवति ॥१॥
Essence
यः सर्वान् भौतिकान् रसानाध्यात्मिकं रसं च प्रवाहयति, द्यावापृथिव्योर्गर्भे बहुमूल्यानि रत्नानि च निदधाति स खलु जगदीश्वरः कस्य न वन्द्यः ॥१॥
Subject
तत्रादौ परमात्मानं तदीयं रसं च वर्णयति।
Footnote
१. ऋ० ९।८६।१०, ऋषयः अकृष्टा माषाः।