Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 103

1875 Mantra
Devata- अग्निः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
ई꣡डि꣢ष्वा꣣ हि꣡ प्र꣢ती꣣व्याँ꣢३ य꣡ज꣢स्व जा꣣त꣡वे꣢दसम् । च꣣रिष्णु꣡धू꣢म꣣म꣡गृ꣢भीतशोचिषम् ॥१०३॥

ई꣡डि꣢꣯ष्व । हि । प्र꣣तीव्य꣢꣯म् । प्र꣣ति । व्य꣢꣯म् । य꣡ज꣢꣯स्व । जा꣣तवे꣡द꣢सम् । जा꣣त꣢ । वे꣣दसम् । चरिष्णु꣡धू꣢मम् । च꣣रिष्णु꣢ । धू꣣मम् । अ꣡गृ꣢꣯भीतशोचिषम् । अ꣡गृ꣢꣯भीत । शो꣣चिषम् ॥१०३॥

Mantra without Swara
ईडिष्वा हि प्रतीव्याँ३ यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिषम् ॥

ईडिष्व । हि । प्रतीव्यम् । प्रति । व्यम् । यजस्व । जातवेदसम् । जात । वेदसम् । चरिष्णुधूमम् । चरिष्णु । धूमम् । अगृभीतशोचिषम् । अगृभीत । शोचिषम् ॥१०३॥

Samveda - Mantra Number : 103
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्य ! त्वम् (प्रतीव्यम्२) प्रतिवस्तु व्यापकम्। प्रतिपूर्वाद् गतिव्याप्त्याद्यर्थकाद् वीधातोर्यत् प्रत्ययः, इकारस्य दीर्घश्छान्दसः। (चरिष्णुधूमम्) चरिष्णुः संचरणशीलः धूमः धूम इव शत्रुप्रकम्पकः प्रभावो यस्य तम्, (अगृभीतशोचिषम्) अगृभीतम् अगृहीतम् अप्रतिरुद्धं शोचिः तेजो यस्य तम्। अगृभीतेत्यत्र हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भः। (जातवेदसम्) जातं वेदः सद्गुणरूपं दिव्यं धनं यस्मात् तम् परमात्माग्निम् (ईडिष्व हि) स्तुति खलु, (यजस्व) पूजय च ॥७॥ श्लेषेण भौतिकाग्निपक्षेऽप्यर्थो योजनीयः ॥७॥
Essence
यथा प्रोद्यद्धूमशिखो रोचिष्णुज्वालो भौतिकाग्निः शिल्पिभिः शिल्पयज्ञेषु प्रयुज्यते तथा विलसत्प्रतापधूमो दीप्ततेजा उपासकानामन्तःकरणे दिव्यधनानां सत्याहिंसाऽस्तेयादीनां जनकः परमात्माग्निरुत्कर्षाकाङ्क्षिभिर्जनैः स्तोतव्यः पूजितव्यश्च ॥७॥
Subject
अथ भौतिकाग्निसादृश्येन परमात्मविषयमाह।
Footnote
१. ऋ० ८।२३।१, प्रतीव्यां३ इत्यत्र प्रतीव्यं इति पाठः। २. प्रतीव्यं महाभूतत्वात् सर्वगतम्—इति वि०।