Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1029

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣡ ति꣢ष्ठ वृत्रह꣣न्र꣡थं꣢ यु꣣क्ता꣢ ते꣣ ब्र꣡ह्म꣢णा꣣ ह꣡री꣢ । अ꣡र्वाची꣢न꣣ꣳ सु꣢ ते꣣ म꣢नो꣣ ग्रा꣡वा꣢ कृणोतु व꣣ग्नु꣡ना꣢ ॥१०२९॥

आ । ति꣣ष्ठ । वृत्रहन् । वृत्र । हन् । र꣡थ꣢꣯म् । यु꣣क्ता꣢ । ते꣣ । ब्र꣡ह्म꣢꣯णा । हरी꣣इ꣡ति꣢ । अ꣣र्वाची꣡न꣢म् । अ꣣र्व । अची꣡न꣢म् । सु । ते꣣ । म꣡नः꣢꣯ । ग्रा꣡वा꣢꣯ । कृ꣣णोतु । वग्नु꣡ना꣢ ॥१०२९॥

Mantra without Swara
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ॥

आ । तिष्ठ । वृत्रहन् । वृत्र । हन् । रथम् । युक्ता । ते । ब्रह्मणा । हरीइति । अर्वाचीनम् । अर्व । अचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥१०२९॥

Samveda - Mantra Number : 1029
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृत्रहन्) पापविघ्नादीन् हन्तः जीवात्मन् ! त्वम् (रथम्) नूतनं देहरूपं रथम् (आ तिष्ठ) अधिरोह। (ब्रह्मणा) परमेश्वरेण मया (ते) तुभ्यम् (हरी) प्राणापानौ ज्ञानकर्मेन्द्रिये वा (युक्ता) युक्तौ, नियुक्तौ स्तः। कुमारावस्थायां गुरुकुलप्रवेशानन्तरं (ग्रावा) विद्वान् उपदेष्टा गुरुः। [विद्वांसो हि ग्रावाणः। श० ३।९।३।१४। गृणाति उपदिशति इति ग्रावा गुरुः।] (वग्नुना) उपदेशात्मकेन शब्देन। [वम्नुरिति वाङ्नाम। निघं० १।११। वच परिभाषणे धातोः ‘वचेर्गश्च’। उ० ३।३३ इति सूत्रेण नुः प्रत्ययः, धातोश्च गान्तादेशः।] (ते मनः) तव चित्तम् (अर्वाचीनम्) धर्माभिमुखम् (सु कृणोतु) सम्यक् करोतु ॥२॥२
Essence
जीवात्मा मातुर्गर्भं प्रविश्य जन्म गृहीत्वा मातापित्रोरङ्के क्रीडन् तयोः सकाशात् प्रारम्भिकशिक्षां प्राप्य कुमारः सन् यथाकालं गुरुकुलं गत्वा गुरुभ्यः शास्त्राध्ययनं कुर्वन् मनो धर्मे प्रवर्तयेत् ॥२॥
Subject
अथ परमेश्वरो जीवात्मानं नवजन्मनि देहं प्रवेशयति।
Footnote
१. ऋ० १।८४।३। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमेतं सेनाध्यक्षो योद्धॄन् किमादिशेदिति विषये व्याचष्टे।