Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1028

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣡सा꣢वि꣣ सो꣡म꣢ इन्द्र ते꣣ श꣡वि꣢ष्ठ धृष्ण꣣वा꣡ ग꣢हि । आ꣡ त्वा꣢ पृणक्त्विन्द्रि꣣य꣢꣫ꣳ रजः꣣ सू꣢र्यो꣣ न꣢ र꣣श्मि꣡भिः꣢ ॥१०२८॥

अ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । इ꣣न्द्र । ते । श꣡वि꣢꣯ष्ठ । धृ꣣ष्णो । आ꣢ । ग꣣हि । आ꣢ । त्वा꣣ । पृणक्तु । इन्द्रिय꣢म् । र꣡जः꣢꣯ । सू꣡र्यः꣢꣯ । न । र꣣श्मि꣡भिः꣢ ॥१०२८॥

Mantra without Swara
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । आ त्वा पृणक्त्विन्द्रियꣳ रजः सूर्यो न रश्मिभिः ॥

असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो । आ । गहि । आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिभिः ॥१०२८॥

Samveda - Mantra Number : 1028
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) सखे जीवात्मन् ! मया (ते) तुभ्यम् (सोमः) आनन्दरसः (असावि) अभिषुतोऽस्ति। हे (शविष्ठ) बलिष्ठ ! हे (धृष्णो) कामादिशत्रूणां धर्षणशील ! (आगहि) आगच्छ। (इन्द्रियम्) आत्मबलम् (त्वा) त्वाम् (आ पृणक्तु) आपूरयतु, (सूर्यः न) आदित्यो यथा (रश्मिभिः) किरणैः (रजः) पृथिवीचन्द्रादिकं लोकम् आपृणक्ति आपूरयति ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
परमात्मना सख्यं कृत्वा जीवात्माऽविच्छिन्नामानन्दरसधारामनन्त- मात्मबलं च लभते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३४७ क्रमाङ्के जीवात्मसेनाध्यक्षयोर्विषये व्याख्याता। अत्र परमात्मा जीवात्मानं ब्रूते।
Footnote
१. ऋ० १।८४।१, साम० ३४७। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमेतं सेनाध्यक्षपक्षे व्याचष्टे।