Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1027

1875 Mantra
Devata- इन्द्रः Rishi- नृमेध आङ्गिरसः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
वि꣣भ्रा꣢ज꣣न् ज्यो꣡ति꣢षा꣣ स्व꣢३꣱र꣡ग꣢च्छो रोच꣣नं꣢ दि꣣वः꣢ । दे꣣वा꣡स्त꣢ इन्द्र स꣣ख्या꣡य꣢ येमिरे ॥१०२७॥

विभ्रा꣡ज꣢न् । वि꣣ । भ्रा꣡ज꣢꣯न् । ज्यो꣡ति꣢꣯षा । स्वः꣢ । अ꣡ग꣢꣯च्छः । रो꣣चन꣢म् । दि꣣वः꣢ । दे꣣वाः꣢ । ते꣣ । इन्द्र । सख्या꣡य꣢ । स । ख्या꣡य꣢꣯ । ये꣣मिरे ॥१०२७॥

Mantra without Swara
विभ्राजन् ज्योतिषा स्व३रगच्छो रोचनं दिवः । देवास्त इन्द्र सख्याय येमिरे ॥

विभ्राजन् । वि । भ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । देवाः । ते । इन्द्र । सख्याय । स । ख्याय । येमिरे ॥१०२७॥

Samveda - Mantra Number : 1027
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) महामहिम जगत्पते ! (ज्योतिषा) तेजसा (विभ्राजन्) भ्राजमानः। [भ्राजृ दीप्तौ, परस्मैपदं छान्दसम्।] त्वम् (दिवः) द्युलोकस्य (रोचनम्) दीप्तिमत् (स्वः) सूर्यम्। [स्वः आदित्यो भवति। सु-अरणः, सु-ईरणः, स्वृतो रसान्, स्वृतो भासं ज्योतिषां, स्वृतो भासेति वा। निरु० २।१४।] (अगच्छः) प्राप्तोऽसि। [योऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम्। य० ४०।१७। इति श्रुतेः।] (देवाः) विद्वांसः (ते) तव (सख्याय) सखित्वाय (येमिरे) स्वात्मानं नियच्छन्ति। [यमु उपरमे भ्वादिः, लडर्थे लिट्, आत्मनेपदं छान्दसम्] ॥३॥
Essence
ज्योतिष्मतः परमेश्वरादेव ज्योतिर्लब्ध्वा वह्निविद्युत्सूर्यनक्षत्ररजतसुवर्ण- हीरकादिकं सर्वं भासते। अतो मनुष्यैरपि ज्योतिर्लाभाय तस्य सख्यमाश्रयणीयम् ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ऋ० ८।९८।३, अथ० २०।६२।७।