Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1024

1875 Mantra
Devata- अग्निः Rishi- वसुश्रुत आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ओ꣡भे सु꣢꣯श्चन्द्र विश्पते꣣ द꣡र्वी꣢ श्रीणीष आ꣣स꣡नि꣢ । उ꣣तो꣢ न꣣ उ꣡त्पु꣢पूर्या उ꣣क्थे꣡षु꣢ शवसस्पत꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२४॥

आ꣢ । उ꣣भे꣡इति꣣ । सु꣣श्चन्द्र । सु । चन्द्र । विश्पते । द꣢र्वी꣢꣯इ꣡ति꣢ । श्री꣣णीषे । आस꣡नि꣢ । उ꣣त꣢ । उ꣣ । नः । उ꣣त् । पु꣣पूर्याः । उक्थे꣡षु꣢ । श꣣वसः । पते । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२४॥

Mantra without Swara
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि । उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषꣳ स्तोतृभ्य आ भर ॥

आ । उभेइति । सुश्चन्द्र । सु । चन्द्र । विश्पते । दर्वीइति । श्रीणीषे । आसनि । उत । उ । नः । उत् । पुपूर्याः । उक्थेषु । शवसः । पते । इषम् । स्तोतृभ्यः । आ । भर ॥१०२४॥

Samveda - Mantra Number : 1024
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुश्चन्द्र) शुभाह्लादक, (विश्पते) प्रजापालक अग्ने अग्रणीः परमात्मन् ! त्वम् (आसनि) व्यादत्ते मुखे इव अवकाशस्थले (उभे दर्वी) उभे द्यावापृथिव्यौ। [दीर्येते प्रलयकाले ये ते दर्वी। दृ विदारणे धातोः ‘वृदृभ्यां विन्’। उ० ४।५४ इत्यनेन विन् प्रत्ययः। दर्व्यौ इति प्राप्ते पूर्वसवर्णदीर्घः।] (आश्रीणीषे) समन्ततः परिपक्वे करोषि। (उत उ) अपि च हे (शवसः पते) बलस्य अधीश्वर ! (उक्थेषु) प्रशंसितेषु धर्म्येषु कर्मसु२ (नः) अस्मान् (उत्पुपूर्याः) पूर्णान् कुर्याः। [पॄ पालनपूरणयोः,जुहोत्यादिः, लिङ्।] (स्तोतृभ्यः) स्तावकेभ्यः अस्मभ्यम् (इषम्) अभीष्टं गुणकर्मस्वभावादिकम् (आ भर) आहर ॥३॥३
Essence
यथा जगदीश्वरो द्यावापृथिव्यौ परिपक्वे परिपूर्णे च करोति तथैव स स्तोतॄन् परिपक्वमतीन् धर्मकर्मसु पूर्णांश्च कुर्यात् ॥३॥
Subject
अथ शिष्याः परमेश्वरं प्रार्थयन्ते।
Footnote
१. ऋ० ५।६।९, ‘उ॒भे सु॑श्चन्द्र स॒र्पिषो॒’ इति प्रथमः पादः। २. द्रष्टव्यम् ऋ० ५।६।९ दयानन्दभाष्यम्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘यो राजा सैन्यस्य भोजनप्रबन्धमुत्तममारोग्याय वैद्यान् रक्षति स एव प्रशंसितो भूत्वा राज्यं वर्धयति’ इति विषये व्याख्यातवान्।