Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1023

1875 Mantra
Devata- अग्निः Rishi- वसुश्रुत आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
आ꣡ ते꣢ अग्न ऋ꣣चा꣢ ह꣣विः꣢ शु꣣क्र꣡स्य꣢ ज्योतिषस्पते । सु꣡श्च꣢न्द्र꣣ द꣢स्म꣣ वि꣡श्प꣢ते꣣ ह꣡व्य꣢वा꣣ट्तु꣡भ्य꣢ꣳ हूयत꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२३॥

आ꣢ । ते꣣ । अग्ने । ऋचा꣢ । ह꣣विः꣢ । शु꣣क्र꣡स्य꣢ । ज्यो꣣तिषः । पते । सु꣡श्च꣢꣯न्द्र । सु । च꣣न्द्र । द꣡स्म꣢꣯ । वि꣡श्प꣢꣯ते । ह꣡व्य꣢꣯वाट् । ह꣡व्य꣢꣯ । वा꣣ट् । तु꣡भ्य꣢꣯म् । हू꣣यते । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२३॥

Mantra without Swara
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यꣳ हूयत इषꣳ स्तोतृभ्य आ भर ॥

आ । ते । अग्ने । ऋचा । हविः । शुक्रस्य । ज्योतिषः । पते । सुश्चन्द्र । सु । चन्द्र । दस्म । विश्पते । हव्यवाट् । हव्य । वाट् । तुभ्यम् । हूयते । इषम् । स्तोतृभ्यः । आ । भर ॥१०२३॥

Samveda - Mantra Number : 1023
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शुक्रस्य) दीप्तस्य (ज्योतिषः) तेजसः (पते) स्वामिन् ! इदम् (ते) तुभ्यम् (ऋचा) वेदमन्त्रोच्चारणेन सह (हविः) होतव्यं द्रव्यम् अस्ति। हे (सुश्चन्द्र) स्वाह्लादक, [सुचन्द्र इति प्राप्ते ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे। अ० ६।१।१५१’ इत्यनेन सुडागमः। चन्द्रः चदि आह्लादने दीप्तौ च इति धातोः ‘स्फायितञ्चि’ उ० २।१३ इति रक् प्रत्ययः।] (दस्म) रोगाणामुपक्षपयितः (विश्पते) प्रजापालक, (हव्यवाट्) हव्यं द्रव्यं हुतं दाहेन सूक्ष्मीकृत्य वहति वायुमाध्यमेन स्थानानन्तरं प्रापयतीति तथाविध (अग्ने) यज्ञवह्ने ! (तुभ्यम्) त्वदर्थम्, एतद् हविः (हूयते) प्रदीयते। त्वम् (स्तोतृभ्यः) मन्त्रपाठद्वारा त्वद्गुणवर्णनपरेभ्यः अस्मभ्यम् (इषम्) अभीष्टम् आरोग्यादिकम् (आ भर) आहर, प्रयच्छ ॥२॥२
Essence
गुरुकुले विद्याध्ययनाय वसन्तः सर्वे छात्रा नियमेन प्रातःसायमग्निहोत्रं कुर्वन्तो वायुशुद्ध्यारोग्यादिकं तेजस्वितां च प्राप्य सुखिनः सन्तु ॥२॥
Subject
अथाचार्याधीनो वसन् शिष्यो यज्ञाग्नौ हविर्जुह्वदाह।
Footnote
१. ऋ० ५।६।५, ‘ज्योतिषस्पते’ इत्यत्र ‘शोचिषस्पते’। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वद्विषये व्याख्यातवान्।