Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1022

1875 Mantra
Devata- अग्निः Rishi- वसुश्रुत आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
आ꣡ ते꣢ अग्न इधीमहि द्यु꣣म꣡न्तं꣢ देवा꣣ज꣡र꣢म् । यु꣢द्ध꣣ स्या꣢ ते꣣ प꣡नी꣢यसी स꣣मि꣢द्दी꣣द꣡य꣢ति꣣ द्य꣡वीष꣢꣯ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२२॥

आ꣢ । ते꣣ । अग्ने । इधीमहि । द्युम꣡न्त꣢म् । दे꣣व । अज꣡र꣢म् । अ꣣ । ज꣡र꣢꣯म् । यत् । ह꣣ । स्या꣢ । ते꣣ । प꣡नी꣢꣯यसी । स꣣मि꣢त् । स꣣म् । इ꣢त् । दी꣣द꣡य꣢ति । द्य꣡वि꣢꣯ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२२॥

Mantra without Swara
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषꣳ स्तोतृभ्य आ भर ॥

आ । ते । अग्ने । इधीमहि । द्युमन्तम् । देव । अजरम् । अ । जरम् । यत् । ह । स्या । ते । पनीयसी । समित् । सम् । इत् । दीदयति । द्यवि । इषम् । स्तोतृभ्यः । आ । भर ॥१०२२॥

Samveda - Mantra Number : 1022
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) ज्ञानप्रकाशप्रदातः (अग्ने) विद्वन् आचार्य ! वयम् (ते) तव (द्युमन्तम्) तेजोमयम्, (अजरम्) जरारहितम् ज्ञानस्तोमम् (इधीमहि) स्वाभ्यन्तरे प्रदीपयामः। (यत् ह) यत् खलु (स्या) सा (ते) तव (पनीयसी) स्तुत्यतरा (समित्) ज्ञानदीप्तिः (द्यवि) प्रकाशिते तवात्मनि (दीदयति) दीप्यते, ताम् (इषम्) व्याप्तां ज्ञानदीप्तिम् (स्तोतृभ्यः) ईश्वरस्तोतृभ्यः शिष्येभ्यः अस्मभ्यम् (आ भर) आहर ॥१॥२
Essence
याः का अपि विद्या आचार्यो जानाति ताः सर्वा अपि शिष्येभ्यः सम्यक् प्रयच्छेत् येन शिष्या विद्वांसो भूत्वा स्वशिष्यान् पाठयेयुः। एवं विद्याध्ययनाध्यापनक्रम उत्तरोत्तरं निर्विघ्नं प्रवर्तेत ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४१९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्राचार्यः सम्बोध्यते।
Footnote
१. ऋ० ५।६।४, अथ० १८।४।८८ (ऋषिः अथर्वा), अथर्ववेदे ‘आ त्वा॑ग्न, यद् ध सा’, ‘द्यवि इषं’ इति पाठः। साम० ४१८। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमग्निविद्याविदो विदुषो विषये व्याख्यातः।