Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1021

1875 Mantra
Devata- पवमानः सोमः Rishi- मन्युर्वासिष्ठः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣भि꣢ व्र꣣ता꣡नि꣢ पवते पुना꣣नो꣢ दे꣣वो꣢ दे꣣वा꣢꣫न्त्स्वेन꣣ र꣡से꣢न पृ꣣ञ्च꣢न् । इ꣢न्दु꣣र्ध꣡र्मा꣢ण्यृतु꣣था꣡ वसा꣢꣯नो꣣ द꣢श꣣ क्षि꣡पो꣢ अव्यत꣣ सा꣢नौ꣣ अ꣡व्ये꣢ ॥१०२१॥

अ꣣भि꣢ । व्र꣣ता꣡नि꣢ । प꣣वते । पुनानः꣢ । दे꣣वः꣢ । दे꣣वा꣢न् । स्वे꣡न꣢꣯ । र꣡से꣢꣯न । पृ꣣ञ्च꣢न् । इ꣡न्दुः꣢꣯ । ध꣡र्मा꣢꣯णि । ऋ꣣तुथा꣢ । व꣡सा꣢꣯नः । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । अ꣡व्यत । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ ॥१०२१॥

Mantra without Swara
अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् । इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानौ अव्ये ॥

अभि । व्रतानि । पवते । पुनानः । देवः । देवान् । स्वेन । रसेन । पृञ्चन् । इन्दुः । धर्माणि । ऋतुथा । वसानः । दश । क्षिपः । अव्यत । सानौ । अव्ये ॥१०२१॥

Samveda - Mantra Number : 1021
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(देवः) दिव्यगुणमयः ब्रह्मानन्दरूपः सोमरसः (देवान्) मनोबुद्धिप्राणेन्द्रियादीन् (पुनानः) पवित्रीकुर्वन् (स्वेन रसेन) आत्मनीनेन रसेन (पृञ्चन्) स्नपयन् (व्रतानि अभि) कर्माणि अभिलक्ष्य, कर्मसु इत्यर्थः (पवते) प्रवाहितो भवति। (इन्दुः) क्लेदकः आनन्दरसः (ऋतुथा) ऋतौ ऋतौ, काले काले। [ऋतुथा ऋतावृतौ। निरु० ८।१६, ऋतुथा काले काले। निरु० १२।२७।] (धर्माणि) सत्यन्यायदयादीन् धर्मान् (वसानः) धारयन् (दश क्षिपः) दश इन्द्रियाणि दश प्राणान् वा। [क्षिप्यन्ते स्वस्वविषयेषु देहस्याङ्गेषु वा इति क्षिपः इन्द्रियाणि प्राणा वा।] (अव्ये सानौ) गन्तुं योग्ये उन्नतिशिखरे। [अवतिर्गत्यर्थः, अवितुं गन्तुं योग्यम् अव्यम्।] (अव्यत)प्रापयति। [अवतेर्गत्यर्थाद् णिज्गर्भाद् विकरणव्यत्ययेन श्यनि लङि रूपम्। आडभावश्छान्दसः] ॥३॥
Essence
ब्रह्मानन्दरसो यदा जीवनमभिव्याप्नोति तदा मनुष्यस्य सर्वाण्यङ्गानि सर्वान् प्राणान् सर्वाणि मनोबुद्ध्यादीनि च स्वप्रभावेण नर्तयन्निव चमत्करोति ॥३॥ अस्मिन् खण्डे आचार्यस्य ज्ञानरसस्य परमात्मनो ब्रह्मानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ प्रवहमानो ब्रह्मानन्दरसः किं करोतीत्याह।
Footnote
१. ऋ० ९।९७।१२, ‘व्रतानि’ इत्यत्र ‘प्रियाणि॑’ इति पाठः।