Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 102

1875 Mantra
Devata- अदितिः Rishi- इरिम्बिठिः काण्वः Chhand- उष्णिक् Swara- ऋषभः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
उ꣣त꣢꣫ स्या नो꣣ दि꣡वा꣢ म꣣ति꣡रदि꣢꣯तिरू꣣त्या꣡ग꣢मत् । सा꣡ शन्ता꣢꣯ता꣣ म꣡य꣢स्कर꣣द꣢प꣣ स्रि꣣धः꣢ ॥१०२॥

उ꣣त꣢ । स्या । नः꣣ । दि꣡वा꣢꣯ । म꣣तिः꣢ । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । ऊत्या꣢ । आ । ग꣢मत् । सा꣢ । श꣡न्ता꣢꣯ता । शम् । ता꣣ता । म꣡यः꣢꣯ । क꣣रत् । अ꣡प꣢꣯ । स्रि꣡धः꣢꣯ ॥१०२॥

Mantra without Swara
उत स्या नो दिवा मतिरदितिरूत्यागमत् । सा शन्ताता मयस्करदप स्रिधः ॥

उत । स्या । नः । दिवा । मतिः । अदितिः । अ । दितिः । ऊत्या । आ । गमत् । सा । शन्ताता । शम् । ताता । मयः । करत् । अप । स्रिधः ॥१०२॥

Samveda - Mantra Number : 102
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 11;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उत) अथ (स्या) सा प्रसिद्धा। तद्वाचिनः सर्वनाम्नः त्यत् शब्दस्य रूपमिदम्। (मतिः२) सर्वविज्ञात्री। मनुते विजानातीति मतिः। मनु अवबोधने धातोः कर्तरि क्तिन्। (अदितिः) अखण्डनीया जगन्माता। दो अवखण्डने धातोः क्तिनि दितिः, न विद्यते दितिः विनाशो यस्याः सा अदितिः। अदितिरदीना देवमाता इति निरुक्तम्। ४।२२। (दिवा) सर्वस्मिन्नहनि (ऊत्या३) रक्षया सह (नः) अस्मान्, अस्मत्सकाशम् (आ गमत्) आगच्छतु। आङ् पूर्वाद् (गच्छतेः) लोडर्थे लुङ्। अडागमाभावश्छान्दसः। (सा) अदितिः जगन्माता (शन्ताता) शन्तातौ, शान्तिकर्मणि। शम् इति निपातात् शिवशमरिष्टस्य करे।’ अ० ४।४।१४३ इत्यनुवृत्तौ भावे च। अ० ४।४।१४४ इति सूत्रेण भावे तातिप्रत्यये शन्तातिः इति। ततः सप्तम्येकवचनस्य सुपां सुलुक् अ० ७।१।३९ इति डादेशः। (मयः) सुखम्। मयः इति सुखनाम। निघं० ३।६। (करत्) करोतु। डुकृञ् करणे धातोर्लेटि रूपम्। (स्रिधः) हिंसावृत्तीः हिंसकाँश्च (अप) अपनयतु ॥६॥
Essence
“त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ” साम० ११७, इत्यत्र परमात्मनो मातृत्वमुक्तम्। तदेवात्र अदिति नाम्ना प्रोच्यते। अदितिर्नाम जगन्माता, खण्डितत्वाभावाद् अदीनत्वाद् अजरामरत्वान्नित्यत्वाच्च। क्रन्दन-लुण्ठन-हाहाकारपीडितेऽस्मिन् जगति सा कृपया शान्तिप्रियैः सज्जनैः क्रियमाणान् शान्तिप्रयासान् सफलीकृत्य विश्वस्मिन् भूमण्डले सुखं वर्षतु, हिंसकाँश्चापि सत्प्रेरणया धर्मात्मनः करोतु ॥६॥
Subject
अथ अदितिर्देवता। परमेश्वरं जगन्मातृत्वेन स्मरन्नाह।
Footnote
१. ऋ० ८।१८।७, शन्ताता इत्यत्र शन्ताति इति पाठः। २. मतिः ज्ञात्री—इति वि०। मतिः मननीया स्तुत्या—इति भ०। मतिः मन्त्री, मन्तव्या स्तोतव्या वा—इति सा०। ३. ऊत्या गमत् इत्यत्र ऊती आगमत् इति विच्छिद्य ऊती पालयित्री—इति वि०, अती ऊत्या रक्षया सह—इति भ०। तदुभयं पदकाराद् विरुद्ध्यते ऊत्या आ गमत् इति पदपाठात्।