Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1018

1875 Mantra
Devata- पवमानः सोमः Rishi- रेभसूनू काश्यपौ Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वं꣡ द्यां च꣢꣯ महिव्रत पृथि꣣वीं꣡ चाति꣢꣯ जभ्रिषे । प्र꣡ति꣢ द्रा꣣पि꣡म꣢मुञ्चथाः प꣡व꣢मान महित्व꣣ना꣢ ॥१०१८॥

त्वम् । द्याम् । च꣣ । महिव्रत । महि । व्रत । पृथिवी꣢म् । च꣣ । अ꣡ति꣢꣯ । ज꣣भ्रिषे । प्र꣡ति꣢꣯ । द्रा꣣पि꣢म् । अ꣣मुञ्चथाः । प꣡व꣢꣯मान । म꣣हित्वना꣢ ॥१०१८॥

Mantra without Swara
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥

त्वम् । द्याम् । च । महिव्रत । महि । व्रत । पृथिवीम् । च । अति । जभ्रिषे । प्रति । द्रापिम् । अमुञ्चथाः । पवमान । महित्वना ॥१०१८॥

Samveda - Mantra Number : 1018
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (महिव्रत) महाकर्मन् सोम जगत्स्रष्टः परमात्मन् ! (त्वम् द्यां च) द्युलोकं च (पृथिवीं च) भूलोकं चापि (अति) अतिक्रम्य (जभ्रिषे) सर्वं बिभर्षि। [डुभृञ् धारणपोषणयोः बभृषे इति प्राप्ते वर्णव्यत्ययेन बकारस्य जकारः, छान्दसः इडागमश्च।] हे (पवमान) सर्वान्तर्यामिन् ! त्वम् (महित्वना) स्वमहिम्ना (द्रापिम्) कवचम् (प्रति अमुञ्चथाः२) धृतवानसि, त्वन्महिमैव तव कवचमित्यर्थः, अलौकिकस्य तव कवचादीनां भौतिकसाधनानामनपेक्षितत्वात्। यद्वा (द्रापिम्३) निद्राम् (प्रति अमुञ्चथाः) परित्यक्तवानसि, सर्वदैव जागरूकत्वात् ॥३॥
Essence
न केवलं द्यावापृथिव्यौ किन्तु तयोः परस्तादपि यत्किञ्चिदस्ति तत्सर्वं जगदीश एव धारयति। स च भौतिकं कवचं विनापि रक्षितो निद्रां विनापि च विश्रान्तः ॥३॥
Subject
अथ पुनस्तमेव विषयमाह।
Footnote
१. ऋ० ९।१००।९। २. प्रति अमुञ्चथाः प्रतिमुञ्चसि संवृणोषि—इति सा०। प्रतिपूर्वो मुञ्चतिर्धारणार्थेऽपि दृश्यते, यथा यज्ञोपवीतमन्त्रे ‘आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रम् (पार० गृह्य० २।२।११, क्वाचित्कः पाठः)’ इति। ३. द्रापिं कवचं निद्रां वा। अत्र ‘द्रै स्वप्ने’ इत्यस्माद् ‘इञ् वपादिभ्यः’ इति इञ्—इति ऋ० १।२५।१३ भाष्ये द०।