Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1016

1875 Mantra
Devata- पवमानः सोमः Rishi- रेभसूनू काश्यपौ Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प꣡व꣢स्व꣣ वा꣡ज꣢सातये प꣣वि꣢त्रे꣣ धा꣡र꣢या सु꣣तः꣢ । इ꣡न्द्रा꣢य सोम꣣ वि꣡ष्ण꣢वे दे꣣वे꣢भ्यो꣣ म꣡धु꣢मत्तरः ॥१०१६॥

प꣡व꣢꣯स्व । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । पवि꣡त्रे꣢ । धा꣡र꣢꣯या । सु꣣तः꣢ । इ꣡न्द्रा꣢꣯य । सो꣣म । वि꣡ष्ण꣢꣯वे । दे꣣वे꣡भ्यः꣢ । म꣡धु꣢꣯मत्तरः ॥१०१६॥

Mantra without Swara
पवस्व वाजसातये पवित्रे धारया सुतः । इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥

पवस्व । वाजसातये । वाज । सातये । पवित्रे । धारया । सुतः । इन्द्राय । सोम । विष्णवे । देवेभ्यः । मधुमत्तरः ॥१०१६॥

Samveda - Mantra Number : 1016
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) रसागार जगत्पते परमात्मन् ! (सुतः) आत्मनि प्रकटीकृतः, (मधुमत्तरः) अतिशयेन मधुरः त्वम् (इन्द्राय) जीवात्मने, विष्णवे) देहे व्यापकाय प्राणाय, (देवेभ्यः) इन्द्रियेभ्यश्च (वाजसातये) बलप्रदानाय (पवित्रे) स्वच्छे हृदये (धारया) आनन्दधारया सह (पवस्व) प्रस्रव ॥१॥
Essence
परमात्मनः सकाशादानन्दनिर्झरे निर्झरिति सति जीवात्मामनोबुद्ध्यादयः सर्वेऽपि रससिक्ताः कृतकृत्या जायन्ते ॥१॥
Subject
तत्रादौ जगदीश्वरमाह्वयति।
Footnote
१. ऋ० ९।१००।६।