Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1015

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
त्री꣡णि꣢ त्रि꣣त꣢स्य꣣ धा꣡र꣢या पृ꣣ष्ठे꣡ष्वै꣢꣯रयद्र꣣यि꣢म् । मि꣡मी꣢ते अस्य꣣ यो꣡ज꣢ना꣣ वि꣢ सु꣣क्र꣡तुः꣢ ॥१०१५॥

त्रा꣡णि꣢꣯ । त्रि꣣त꣡स्य꣢ । धा꣡र꣢꣯या । पृ꣣ष्ठे꣡षु꣢ । आ । ऐ꣣रयत् । रयि꣢म् । मि꣡मी꣢꣯ते । अ꣣स्य । यो꣡ज꣢ना । वि । सु꣣क्र꣡तुः꣢ । सु꣣ । क्र꣡तुः꣢꣯ ॥१०१५॥

Mantra without Swara
त्रीणि त्रितस्य धारया पृष्ठेष्वैरयद्रयिम् । मिमीते अस्य योजना वि सुक्रतुः ॥

त्राणि । त्रितस्य । धारया । पृष्ठेषु । आ । ऐरयत् । रयिम् । मिमीते । अस्य । योजना । वि । सुक्रतुः । सु । क्रतुः ॥१०१५॥

Samveda - Mantra Number : 1015
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्रितस्य) सूर्यस्य (त्रीणि) त्रीणि पृष्ठानि पृथिव्यन्तरिक्षद्युलोकाख्यानि सन्ति। तेषु (पृष्ठेषु) त्रिष्वपि पृष्ठेषु, स पवमानः सोमः जगत्स्रष्टा परमेश्वरः (रयिम्) ऐश्वर्यम् (ऐरयत्) प्रेरितवान् अस्ति। अपि च (सुक्रतुः) सुकर्मा स परमेश्वरः (अस्य) सूर्यस्य (योजना) योजनानि, कियद्विस्तीर्णः सूर्य इति मानानि अपि (वि मिमीते) विशेषेण इयत्तया परिच्छिनत्ति। [माङ् माने शब्दे च। जुहोत्यादिः] ॥३॥
Essence
भूमावन्तरिक्षे दिवि च सर्वत्रैव जगदीश्वरेण विशिष्टान्यैश्वर्याणि निहितानि सन्ति। सर्वेषां ग्रहोपग्रहसूर्यनक्षत्रनीहारिकादीनां रचयिता स तत्परिमाणमपि यथार्थतया जानाति ॥३॥
Subject
अथ परमात्मनः कर्माणि वर्ण्यन्ते।
Footnote
१. ऋ० ९।१०२।३। ‘पृ॒ष्ठेष्वे॑रया र॒यिम्’ इति पाठः।