Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1013

1875 Mantra
Devata- पवमानः सोमः Rishi- त्रित आप्त्यः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
प्रा꣣णा꣡ शिशु꣢꣫र्म꣣ही꣡ना꣢ꣳ हि꣣न्व꣢न्नृ꣣त꣢स्य꣣ दी꣡धि꣢तिम् । वि꣢श्वा꣣ प꣡रि꣢ प्रि꣣या꣡ भु꣢व꣣द꣡ध꣢ द्वि꣣ता꣢ ॥१०१३॥

प्रा꣣णा꣢ । प्र꣣ । आना꣢ । शि꣡शुः꣢꣯ । म꣣ही꣡ना꣢म् । हि꣣न्व꣢न् । ऋ꣣त꣡स्य꣢ । दी꣡धि꣢꣯तिम् । वि꣡श्वा꣢꣯ । प꣡रि꣢꣯ । प्रि꣣या꣢ । भु꣣वत् । अ꣡ध꣢꣯ । द्वि꣡ता꣢ ॥१०१३॥

Mantra without Swara
प्राणा शिशुर्महीनाꣳ हिन्वन्नृतस्य दीधितिम् । विश्वा परि प्रिया भुवदध द्विता ॥

प्राणा । प्र । आना । शिशुः । महीनाम् । हिन्वन् । ऋतस्य । दीधितिम् । विश्वा । परि । प्रिया । भुवत् । अध । द्विता ॥१०१३॥

Samveda - Mantra Number : 1013
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 6; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(प्राणा) प्राणः, सर्वेषां प्राणयिता, (शिशुः) शिशुरिव स्पृहणीयः, (महीनाम्) मङ्गलबुधबृहस्पतिचन्द्रादिषु विद्यमानानां पृथिवीनां पृष्ठे (ऋतस्य) सूर्यस्य। [ऋतमित्येष (सूर्यः) वै सत्यम्। ऐ० ब्रा० ४।२०।] (दीधितिम्) किरणावलीम् (हिन्वन्) प्रेषयन्, पवमानः सोमः सर्वान्तर्यामी परमेश्वरः (विश्वा) विश्वानि (प्रिया) प्रियाणि वस्तूनि (परि भुवत्) सर्वतः व्याप्नोति। (अध) अथ च (द्विता) द्विधा अस्य कार्याणि सन्ति—हिमनदनदीसमुद्रचन्द्रपर्जन्यप्रभृतीनि सौम्यानि अग्निविद्युत्सूर्यादीनि तैजसानि च ॥१॥
Essence
यो जगदीश्वरः सर्वान् प्राणिनः प्राणयति, सूर्यप्रकाशं सर्वत्र विकिरति, सर्वान्तर्यामी सन् सर्वजगद्व्यवस्थां करोति स सर्वैर्जनैः कुतो नाराधनीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५७० क्रमाङ्के परमात्ममहत्त्वविषये व्याख्याता। अत्र स एव विषयः प्रकारान्तरेणोच्यते।
Footnote
१. ऋ० ९।१०२।१, साम० ५७०।